________________ सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे ____539 ज्ञीप्सास्थये॥३॥३।६४॥ परपरितोषार्थमात्मरूपादिप्रकाशनं ज्ञीप्सा / तिष्ठन्त्यस्मिनिति स्थेयः / रूढिवशाद्विवादपदे निर्णता प्रमाणभूतः पुरुष उच्यते / ज्ञीप्सायां स्थेयविषयायां च क्रियायां वर्तमानात्तिष्ठतेः कर्तर्यात्मनेपदं स्यात् / तिष्ठते कन्या छात्रेभ्यः। तिष्ठते वृषली ग्राम्येभ्यः / स्वाभिमायप्रकाशनेनात्मानं रोचयतीत्यर्थः / खयि मयि तिष्ठते / संशय्य कर्णादिषु तिष्ठते यः। कर्णादिस्थेयोपदिष्टं निर्णयतीत्यर्थः। 540 प्रतिज्ञायाम् // 3 // 3 // 66 // प्रतिज्ञा अभ्युपगमः। तत्र वर्तमानात्तिष्ठतेः कर्तर्यात्मनेपदं स्यात् / नित्यं शब्दमातिष्ठते / तदतदात्मकं तत्त्वमातिष्ठते / स्वभावाचायमाङ्पूर्व एव प्रतिज्ञायां वर्तते / योगविभाग उत्तरार्थः / 541 समो गिरः // 3 // 3 // 66 // सम्पूर्वाद् गिरतेः प्रतिज्ञायां वर्तमानात् कर्तर्यात्मनेपदं स्यात् / स्याद्वादं संगिरते प्रतिजानीते इत्यर्थः / प्रतिज्ञायामित्येव / संगिरति ग्रासम् / गिर इति निर्देशाद् गृणातेनं भवति / 542 अवात् // 3 / 3 / 67 // पृथग्योगात् प्रतिज्ञायामिति निवृत्तम् / अवपूर्वाद् गिरते; कर्तर्यात्मनेपदं स्यात् / अवगिरते। अवादन्यत्र गिरति / गिर इत्येवः / अवगृणाति / अवपूर्वस्य गृणातेः प्रयोगो नास्तीत्यन्ये / 543 निहवे ज्ञः // 3 / 3 / 68 // निहवोऽपलापस्तस्मिन् वर्तमानाजानातेः कर्तर्यात्मनेपदं स्यात् / शतमपजानीते / अपढ्नुते इत्यर्थः / अपेन चास्यायमर्थोऽभिव्यज्यते / निहव इति किम् / तत्त्वं जानाति / 644 संप्रतेरस्मृतौ // 3 / 3 / 69 // संपतिभ्यां पराजानातेरस्मृतौ वर्तमानात् कर्तर्यात्मनेपदं स्यात् / शतं संजानीते-अवेक्षते इत्यर्थः। शतं प्रतिजानीते +शतेन संजानीते / अभ्युपगच्छतीत्यर्थः / अस्मृताविति किम् / मातुर्मातरं वा संजानाति / 545 अननोः सनः // 3 // 370 // सन्नन्ताजानातेः कर्तर्यात्मनेपदं स्यात् स चेदनोरुपसर्गात् परो न / धर्म जिज्ञासते / अननोरिति किम् / धर्ममनुजिज्ञासति / कथमौषधस्यानुजिज्ञासते ? -अकर्मकात् 'प्राग्वत्' इत्यनेन भविष्यति / / ___ + ‘समो शो स्मृतौ वा' इति तृतीया / तद्विकल्पे च पक्षे द्वितोया।