SearchBrowseAboutContactDonate
Page Preview
Page 645
Loading...
Download File
Download File
Page Text
________________ 632 सिद्धहैमबृहत्मक्रिया. [आख्यातमकरणे क्रियाभ्यावृत्तिः। पदं मिथ्या कारयते / स्वरादिदोषदुष्टमसकृदुच्चारयति पाठयतीत्यर्थः / आत्मनेपदेनैव क्रियाभ्यावृत्ते?तितत्वात् आभीक्ष्ण्ये द्विर्ववचनं न भवतीति केचित् / मिथ्येति किम् / पदं साधु कारयति / कुरा इति किम् / पदं मिथ्या वाचयति / अभ्यास इति किम् / सकृत् पदं मिथ्या कारयति / 571 परिमुहायमायसपाधववसदमादरुचनृतः फलवति // // 3 / 3 / 94 // फलवतीति भूम्न्यतिशायने वा मतुः। तेन यत्क्रियायाः प्रधानं फलमोदनादि यदर्थमियमारभ्यते तद्वति कर्तरि विवक्षिते परिपूर्वान्मुहेराङ्पूर्वाभ्यां यमियसिभ्यां पिबतिधेवदवसतिदमादरुचवृतिभ्यश्च णिगन्तेभ्यः कर्तर्यात्मनेपदं स्यात् / परिमोहयते चैत्रम् / आयामयते सर्पम् / आयासयते मैत्रम् / पाययते बटुम् / धापयते शिशुम् / वादयते शिशुम् / वासयते पान्थम् / दमयतेऽश्वम् / आदयते चैत्रेण / अदेनेच्छन्त्यन्ये / आदयति चैत्रेण / रोचयते मैत्रम् / नर्तयते नटम् / पिवत्यत्तिट्धेधातूनामाहारार्थवादौदासीन्यनिवृत्त्यर्थतायामकर्मकत्वाच नृतेश्चलनार्थत्वाच्च शेषाणां स्वरूपतो विवक्षातो वाऽकर्मकत्वात् उत्तराभ्यां परस्मैपदे प्राप्ते वचनम् / पा इति ट्धेसाहचर्यात् पिवतेहणं न पातेः, वदसाहचर्याच वस इति वसतेन वस्तेरिति पाति चैत्रो नोदास्ते, पालयति चैत्रम् , वस्ते मैत्रो न नग्नः, वासयति मैत्रम् इत्येव भवति। ईगितः / यजी-यजते / डुकंग्-कुरुते / 572 जोऽनुपसर्गात् // 3 // 3 // 96 // अविद्यमानोपसर्गाज्जानातेः फलवति कर्तर्यात्मनेपदं स्यात् / गां जानीते / अश्वं जानीते / अनुपसर्गादिति किम् / स्वर्ग प्रजानाति / फलवतीत्येव / परस्य गां जानाति / अकर्मकात् पूर्वेण सिद्धे सकर्मकार्थ वचनम्। 573 वदोऽपात् // 3 // 3 // 97 // अपपूर्वाद् वदतेः फलवति कर्तर्यात्मनेपदं स्यात्। एकान्तमपवदते / अपादिति किम् / वदति फलवतीत्येव / अपवदति परं स्वभावतः। 574 समुदाङो यमेरग्रन्थे // 3 // 3 / 98 // समुदाझ्यः पराद् यमेरग्रन्थविपये प्रयोगे फलवति कर्तर्यात्मनेपदं स्यात् / संयच्छते ब्रीहीन् / उद्यच्छते भारम् / आयच्छते वस्त्रम् / समुदाङ इति किम् / नियच्छति वाचम् / अग्रन्थ इति किम् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy