________________ 622 सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे आक्रामति उद्गच्छतीत्यर्थः / आक्रामति धूमो हयंतलम् / उद्गच्छन् व्यामोतीत्यर्थः / उद्गम इति किम् / . " नभः समाक्रामति नष्टवर्त्मना स्थितैकचक्रेण रथेन भास्करः " अत्र व्याप्तिमात्रं विवक्षितं नतूद्गमोपसर्जनव्याप्तिः। अन्ये तूद्गमोपसर्जनां व्याप्ति पश्यन्तोऽसाधुमेनं मन्यन्ते। 528 दागोऽस्वास्यप्रसारविकासे ॥३।३।५३॥आपूर्वाददातेः कर्तर्यात्मनेपदं स्यान्न चेत्स्वास्यप्रसारणं विकासश्चार्थो भवति / विद्यामादत्ते / धनमादत्ते / अस्वास्यप्रसारविकास इति किम् / उष्ट्रो मुखं व्याददाति प्रसारयतीत्यर्थः। कूलं व्याददाति / विपादिका व्याददाति विकसतीत्यर्थः / स्वग्रहणं किम् / व्याददते पिपीलिकाः पतङ्गस्य मुखम् / आङ इत्येव / ददाति / फलवतोऽन्यत्रायं विधिः / ... 529 नुप्रच्छः // 3 // 3 // 54 // आपूर्वान्नौतेः प्रच्छेश्च कर्तर्यात्मनेपदं स्यात् / आनुते शृगालः / उत्कण्ठितः शब्दं करोति / उत्कष्ठापूर्वके संशब्दे नौतेरयं विधिर्न सर्वत्र / आपृच्छते गुरून् / आपृच्छस्व प्रियसखम् / वियुज्यमानस्य प्रश्नेऽयं विधिः / आङ इत्येव / नौति / प्रणौति / पृच्छति / परिपृच्छति / 530 गमेः क्षान्तौ // 3 // 3 // 55 // शान्तिः कालहरणम् / तत्र वर्तमानाद् गमयतेरापूर्वकात् कर्तर्यात्मनेपदं स्यात् / आगमयते गुरून् / कंचित् कालं प्रतीक्षते / आगमयस्व तावत् / कंचित् कालं सहस्वेत्यर्थः। क्षान्ताविति किम् / आगमयति विद्याम् / गृह्णातीत्यर्थः / क्षान्तौ स्वभावाद् गमिर्ण्यन्त एव / / 531 वः स्पर्द्धं // 3 // 3 // 56 // आयूर्वाद् हयतेः कर्तर्यात्मनेपदं स्यात् स्पर्द्ध गम्यमाने / स्पद्धः संघर्षः पराभिभवेच्छा / स धातर्थस्य विशेषणम् / धात्वर्थश्च हुयतेरापूर्वस्य शब्द एव स्वभावात् / मल्लो मल्लमाह्वयते। स्पर्द्धमान आकारयतीत्यर्थः / स्पर्द्ध इति किम् / गामाह्वयति / .. 532 संनिवेः // 3 // 357 // संनिविभ्यः पराद् हयते: कर्तर्यात्मनेपदं स्यात् / संवयते / निहयते / विह्वयते / 533 उपात् // 3 // 358 // उपपूर्वाद् हयतेः कर्तर्यात्मनेपदं स्यात् / उपहयते / योगविभाग उत्तरार्थः।