SearchBrowseAboutContactDonate
Page Preview
Page 634
Loading...
Download File
Download File
Page Text
________________ आत्मनेपदमक्रिया ] सिद्धहमबृहत्पक्रिया. 621 मानात् क्रमेः कर्तर्यात्मनेपदं स्यात् / वृत्तिरप्रतिबन्ध आत्मयापनं वा / शास्त्रेऽस्य क्रमते बुद्धिः / तत्र न हन्यते / आत्मानं यापयति वेत्यर्थः / सर्ग उत्साहः तात्पर्य वा। सगेणातिसगेस्य लक्षणादनुज्ञा वा। सूत्राय क्रमते / तदथेमुत्सहते तत्परो वानुज्ञातो वा / तायनं स्फीतता संतानः पालनं वा / क्रमन्तेऽस्मिन् योगाः। स्फीता भवन्ति संतन्यन्ते पाल्यन्ते वेत्यर्थः। वृत्त्यादिष्विति किम् / कामति / 524 परोपात् // 33 // 49 // परोपाभ्यामेव क्रमेवृत्त्यादिष्वर्थेषु कर्तर्यात्मनेपदं स्यात् / पराक्रमते / उपक्रमते / परोपादेवेति किम् / अनुक्रामति / वृत्त्यादिष्वित्येव / पराक्रमति / उपक्रमति / अन्ये तु परोपाभ्यां परात् क्रमतेर्वृत्त्या. अर्थाभावेऽपीच्छन्ति / तेन पराक्रमते उपक्रमते इत्यात्मनेपदमेव / वृत्त्यादिषु बन्योपसर्गपूर्वादपि मन्यन्ते / निष्क्रमते / प्रतिक्रमते / न प्रतिहन्यते इत्यर्थः / 528 वेः स्वार्थे // 3 // 3 // 50 // स्वार्थः पादविक्षेपः। तस्मिन् वर्तमानाद् वेः परात् क्रमेः कर्तर्यात्मनेपदं स्यात् / साधु विक्रमते गजः / स्वार्थे इति किम् / अश्वेन विक्रामति / विक्रामत्यजिनसंधिः स्फुटतीत्यर्थः। विक्रामति राजा। उत्सहते इत्यर्थः। 526 प्रोपादारम्भे // 3 // 3 // 51 // आरम्भ आदिकर्म। अङ्गीकरणं चेत्यन्ये / तस्मिन् वर्तमानात् भोपाभ्यां परात् क्रमे कर्तर्यात्मनेपदं स्यात् / प्रक्रमते, उपक्रमते भोक्तुम् / प्रारभते अङ्गीकरोति चेत्यर्थः। आरम्भ इति किम् / पूर्वेयुः प्रक्रामति गच्छतीत्यर्थः / अपरेधुरुपक्रामति, समीपमागच्छतीत्यर्थः / परोपादित्यनेनापि न भवति / वृत्त्यादेरर्थस्याविवक्षितत्वात् / अन्ये तु स्वार्थविषय एवारंभे मन्यन्ते / तेनोपक्रमते प्रक्रमते पादाभ्यां गन्तुमारभत इत्यर्थ इत्यत्रैव भवति / स्वार्थविषयारम्भादन्यत्र तु प्रक्रामति, उपक्रामति भोक्तुमित्यत्र न भवति / 527 आङो ज्योतिरुद्गमे // 3 // 3 // 52 // आङः परात् क्रमेयोतिषां चन्द्रादीनामुद्गमे ऊर्ध्वगमने प्रधाने उपसर्जने वा वर्तमानात् कर्तर्यात्मनेपदं स्यात् / आक्रमते चन्द्रः सूर्यो वा / उदयते इत्यर्थः। दिवमाक्रममाणेन केतुना। अत्र दिवमिति कर्मणा योगादुद्गमनोपसर्जनव्याप्तिवचनः क्रमिः / ज्योतिरुद्गम इति किम् / आक्रामति माणवकः कुतुपमवष्टभ्नातीत्यर्थः / ज्योतिरिति किम् / धूम
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy