________________ आत्मनेपदप्रक्रिया] सिद्धहैमबृहत्पक्रिया. कस्यचिदर्थस्यासेवनं चोपलम्भनम् / मैत्राय शपते / प्रोषिते मैत्रे तस्य भावेऽभावे चोपलब्धे सति तदनुरूपं किंचिदनुतिष्ठतीत्यर्थः। उपलम्भन इति किम् / मैत्रं शपति / आक्रोशतीत्यर्थः। 518 आशिषि नाथः // 3 // 3 // 36 // आशिष्येवार्थे वर्तमानान्नाथतेः कर्तर्यात्मनेपदं स्यात् / सर्पिषो नाथते / मधुनो नाथते / सर्प, भूयादित्याशास्ते इत्यर्थः। आशिष्येवेति नियमः किम् / याच्यां मा भूत् / मधु नाथति / डित्करणं त्वस्यानपत्ययार्थम् / भुनजोऽत्राणे। ओदनं भुङ्क्ते / त्राणे तु महीं भुनक्ति। 519 हृगो गतताच्छील्ये // 3 // 3 // 38 // गतं प्रकारः सादृश्यमनुकरणमित्येकोऽर्थः। तच्छोलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् उत्पत्तेः प्रभृत्याविनाशात्तत्स्वभावता। हरतेः प्रकारताच्छील्येऽर्थे वर्तमानात् कर्तर्यात्मनेपदं स्यात् / शब्दशक्तिस्वाभाव्याचानुपूर्व एव हरतिर्गतताच्छील्ये वर्तते / पैतृकमश्वा अनुहरन्ते। मातृकं गावोऽनुहरन्ते / पितुरागतं मातुरागतं गुणविषयं क्रियाविषयं वा सादृश्यमविकलं शीलयन्तीत्यर्थः / एवं पितुरनुहरते / पितरमनुहरते / मातुरनुहरते / मातरमनुहरते / गतग्रहणं किम् / पितुर्हरति मातुर्हरति / ताच्छील्य इति किम् / नटो राममनुहरति / नटो हि कंचिदेव कालं राममनुकरोति इत्यसातत्ये न भवति / यद्वा गमनं गतं तस्य पित्रादेः शीलमस्य तच्छीलस्तस्य भावस्ताच्छील्यम् / गतेन गमनेन ताच्छील्यं गतताच्छील्यम् / तस्मिन्नर्थे वर्तमानाद्धरतेः कर्तर्यात्मनेपदं स्यात् / पैतृकमवा अनुहरन्ते / पितुरागतं गमनम् अविच्छेदेन शीलयन्तीत्यर्थः / एवं पितुः पितरं वा अनुहरते / गतताच्छील्य इति किम् / धर्मान्तरेण पितरमनुहरन्ति / अथवा गते गमने ताच्छील्ये च वर्तमानाद्धरतेरात्मनेपदं स्यात् / पैतृकमवा अनुहरन्ते-तद्वद् गच्छन्ति तद्वच्छीलन्ति वेत्यर्थः। 520 पूजाचार्यकभृत्युत्क्षेपज्ञानविगणनव्यये नियः // 33 // 39 // पूजाचार्यकभृतिषु यथासंख्यं कर्मकर्तृधावर्थविशेषणेषु गम्यमानेषु उत्क्षेपादिषु च धावर्थेषु वर्तमानान्नयतेः कर्तर्यात्मनेपदं स्यात् / पूजा सन्मानः / नयते विद्वान् स्याद्वादे / प्रमाणव्यापारषित स्याद्वादे जीवादीन् पदार्थान् युक्तिभिः स्थिरीकृत्य शिष्यबुद्धिं पापयतीत्यर्थः / ते युक्तिभिः स्थिरीकृताः पूजिता भवन्ति / आचार्यस्य भावः कर्म वाचार्यकम् / माणवकमुपनयते / स्वयमाचार्यो भवन्माणवकमध्ययना