________________ 618 सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे नेपदं स्यात् / अपस्किरते वृषभो हृष्टः। अपस्किरते कुक्कुटो भक्ष्यार्थी / अपस्किरते या आश्रयार्थी / अपाच्चतुष्पादित्यादिना स्सट् / सस्सटकनिर्देशादिह न / अपकिरति वृषभः / अपेति किम् / उपस्किरति / 513 उदश्वरः साप्यात् // 3 // 3 // 31 // उत्पूर्वाञ्चरतेः साप्यात् सकर्मकात् कर्तर्यात्मनेपदं स्याद् / गुरुवचनमुच्चरते / मार्गमुच्चरते / व्युत्क्रम्य गच्छतीत्यर्थः / ग्रासमुच्चरते / सक्तूनुच्चरते / भक्षयतीत्यर्थः। उद इति किम् / चारं चरति / साप्यादिति किम् / धूम उच्चरति / शब्द उच्चरति / ऊध्र्व गच्छतीत्यर्थः / 514 समस्तृतीयया // 3 // 3 // 32 // समः पराञ्चरतेः तृतीयान्तेन योगे सति कर्तर्यात्मनेपदं स्यात् / अश्वेन संचरते। रथेन संचरते / तृतीययेति किम् / उभौ लोको संचरसि इमं चामुं च देवल किं त्वं करिष्यसि रथ्यया संचरति चैत्रोऽरण्ये इत्यत्र तु तृतीयान्तेन योगाभावान्न भवति / ___515 क्रीडोऽकूजने // 3 // 3 // 33 // कूजनमव्यक्तः शब्दस्ततोऽन्यस्मिन्नर्थे वर्तमानात् संपूर्वात् क्रीडेः कर्तर्यात्मनेपदं स्यात् / संक्रीडते / संक्रीडमानः / रमते इत्यर्थः। सम इत्येव / क्रीडति / अकूजन इति किम / संक्रीडन्ति शकटानि / अव्यक्तं शब्दं कुर्वन्ति इत्यर्थः। 516 अन्वापरेः // 3 / 3 / 34 // अनु आङ् परि इत्येतेभ्य उपसर्गेभ्यः परात् क्रीडतेः कर्तर्यात्मनेपदं स्यात् / अनुक्रीडते। अनुक्रीडमानः / आक्रीडते / आक्रीडमानः। परिक्रीडते / परिक्रीडमानः / उपसर्गादित्येव / माणवकमनु क्रीडति / माणवकेन सह क्रीडतीत्यर्थः / धातुना अनोरसंबन्धाद्वा न भवति / एवमुपरि क्रीडति / 517 शप उपलम्भने // 33 // 35 // उपलम्भनेऽर्थे वर्तमानाच्छपतेः कर्तर्यात्मनेपदं स्यात् / उपलम्भनं प्रकाशनम् ज्ञापनम् / मैत्राय शपते / मैत्रं कथंचिदर्थ बोधयतीत्यर्थः / मैत्रमेवैवंभूतोऽसावित्यन्यस्मै प्रकाशयतीत्येके / अथवा स्वाभिपायस्य परत्राविष्करणमुपलम्भनं शपथ इति यावत् / मैत्राय शपते / वाचा मात्रादिशरीरस्पर्शनेन मैत्रं स्वाभिप्रायं बोधयतीत्यर्थः। प्रोषितस्य भावाभावोपलब्धौ .... 1 अत्रानोर्माणवकेन योगादुपसर्गत्वाभावादुपसर्गानुवृत्तरत्र नात्मनेपदम् /