SearchBrowseAboutContactDonate
Page Preview
Page 630
Loading...
Download File
Download File
Page Text
________________ आत्मनेपदप्रक्रिया] सिद्धहैमबृहत्यक्रिया. -617 507 उपसर्गाहो ह्रस्वः // 4 / 3 / 106 / / उपसर्गात् परस्योहतेरूकारस्य क्डिति यकारादौ प्रत्यये इस्वः स्यात् / समुह्यते / समुह्यात् / समुह्य / पर्युह्यते / पर्युह्यात् / पर्युह्य / अभ्युह्यते / अभ्युह्यात् / अभ्युह्य। उपसर्गादिति किम् / ऊह्यते / यीत्येव / समूहितम् / विडतीत्येव / अभ्यूह्योऽयमर्थः / ऊ ऊह इति ऊकारपलेपात् आ ऊह्यते ओह्य ते, समौह्यतेत्यत्र न भवति / 508 उत्स्वरायुजेरयज्ञतत्पात्रे // 3226 // उदः स्वरान्ताच्चोपसर्गात् परायुनक्तेः कर्तर्यात्मनेपदं स्यात् 'अयज्ञतत्पात्रे ' न चेद्यज्ञे यत्तत्पात्रं तद्विषयो युज्यर्थः। उद्युङ्क्ते / उपयुङ्क्ते। नियुङ्क्ते / उत्स्वरादिति किम् / संयुनक्ति / नियुनक्ति / अयज्ञतत्पात्र इति किम् / द्वंद्वं यज्ञपात्राणि प्रयुनक्ति / यत्र तु यज्ञ एव नतु तत्पात्रम्, तत्पात्रमेव वा न यज्ञस्तत्र भवत्येव / यज्ञे मन्त्रं रन्धनपात्राणि वा प्रयुङ्क्ते / यज्ञपात्राणि रन्धने प्रयुङ्क्ते / युजिच् समाधावित्यस्येदित्त्वादात्मनेपदविधानमनर्थकम् / 509 परिव्यवात् क्रियः // 3 // 3 // 27 // परि वि अव इत्येतेभ्य उपसर्गेभ्यः परात् क्रीणातेः कर्तर्यात्मनेपदं स्यात् / परिक्रोणीते / विक्रीणीते / अवक्रीगीते / सर्वत्रेगितः फलवतोऽन्यत्र विधिः / उपसर्गादित्येव / उपरि क्रीणाति / गवि क्रीणाति / वनं बहुवि क्रोणावि / अपचाव क्रीणीवः / क्री इत्यनुकरणमनुकार्येणार्थेनार्थवदिति नामत्वे सति ततः स्यादयः / प्रकृतिवदनुकरणमिति न्यायाच पातुकार्यमियादेशः। अत एव च ज्ञापकात् 'प्रकृतिवदनुकरणे कार्य भवति' तेन मुनी इत्याह, द्विष्पचतीत्याहेत्यादौ प्रकृतिभावषवविकल्पादि सिद्धं भवति / 510 परावेर्जेः // 3 / 3 / 28 // परा वि इत्येताभ्यामुपसर्गाभ्यां पराज्जयतेः कर्तर्यात्मनेपदं स्यात् / पराजयते। विजयते। उपसर्गादित्येव / सेना परा जयति / बहुवि जयति वनम् / .511 समः क्षणोः // 33 // 29 // समः परात् क्ष्णौतेः कर्तर्यात्मनेपदं स्यात् / संक्ष्णुते शस्त्रम् / सम इति किम् / क्ष्णौति / उपसर्गादित्येव / आयसं क्ष्णौति / ... 512 अपस्किरः // 3 // 3 // 30 // अपपूर्वात् किरतेः सस्सट्कात् कर्तर्यात्म
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy