________________ सिद्धहैमबृहत्मक्रिया. [आख्यातमकरणे तिरसस्तिरिः। तिराययतीत्येके / सध्यञ्च सध्ययति / सधाययतीत्यन्ये / विष्वयश्चं विष्वद्ययति / देवद्यश्चं देवधयति / अदयश्चम् अदद्ययति / अदमुयश्चम् अदमुययति। अमुमुयश्चम् अमुमुययति / हलिं कलिं गृणाति हलयति / कलयति / अजहलत् / अचकलत् / सन्वद्भावो दीर्घश्चात्र न / नामिनोऽकलिहलेरिति वृद्धयभावे समानलोपित्वात् / स्वश्वमाचष्टे स्वश्वयति / स्वाशश्वत् / भुवं भावयति / अबीभवत् / श्रियम् अशिश्रयत् / गाम् अजूगवत् / रायम् अरीरयत् / नावम् अनूनवत् / विन्मतोर्णीष्ठेयसौ लुप् / स्रग्विणं सजयति / संज्ञापूर्वकत्वान्न वृद्धिः। श्रीमती श्रीमन्तं वा श्राययति / अशिश्रयत् / पयस्विनी पयसयति / त्वग्वन्तं त्वचयति / वसुमन्तं वसयति / अल्पं युवानं वा कनयति / पक्षे अल्पयति / यवयति / दूरं दवयति। कथं दूरयतीति / दूरमतति अयते दूरात् / दूरातं कुर्वतीत्यर्थः। अन्तिकं नेदयति / बाढं साधयति / प्रशस्यं श्रयति / प्रशसयतीत्यन्ये / वृद्धम् ज्ययति / वर्षयति / स्थिरं स्थापयति / स्फिरं स्फापयति / गुरुं गरयति / तृमंत्रपयति / उरुं वरयति / बहुलं बंहयति / दीर्घ द्राधयति / वृन्दारकं वृन्दयति / ___!! इति नामधातुप्रक्रिया // // अथ कण्ड्वादयः // कण्डूग् गात्रविघर्षणे // 1 // गकारः फलवति * ईगित' इत्यात्मनेपदार्थः / 499 धातोः कण्ड्वादेर्यक् / / 3 / 4 / 8 // द्विविधाः कण्ड्वादयः, धातवो नामानि च / कण्ड्वादिभ्यो धातुभ्यः स्वार्थे यक् प्रत्ययः स्यात् / कण्डूयति। कण्डूयते। धातोरिति किम् / कण्डूः। कण्ड्वौ / कण्वः / यकः कित्वाद्धातोरेवायं विधिः। धातुग्रहणमुत्तरार्थमिह सुखार्थ च। महीङ् वृद्धौ पूजायाम् च // 2 // महीयते / हृणीङ् रोषलज्जयोः // 3 // हृणीयते / वेङ् लाङ् धौर्ये, पूर्वभावे, स्वप्ने च // 5 // सर्वत्र डकार आत्मनेपदार्थः / मन्तु अपराधे // 6 // मन्तूयति / वल्गु पूजामाधुर्ययोः // 7 // असु उपतापे // 8 // असूयति / असू असूग् इत्येके / असूयति / असूयते / वेट लोट धौ] पूर्वभावे स्वप्ने च // 10 // वेट लाट् इत्यन्ये / लिट् अल्पार्थे कुत्सायां च / 11 // लोट् दीप्तौ // 12 // लेला दीप्तावित्येके / उरस् ऐश्वर्ये // 13 // उरस्यति / उषस् प्रभातीभावे // 14 // इरस् ईर्ष्यायाम् // 15 // इरज् इरग् इत्यपि केचित् /