SearchBrowseAboutContactDonate
Page Preview
Page 626
Loading...
Download File
Download File
Page Text
________________ 613 नामधातुप्रक्रिया] सिद्धहैमवृष्ठत्मक्रिया. एवोपसर्गार्थः प्रत्ययार्थेऽन्तर्भवति, द्वितीयस्तूपसर्गेणैव प्रत्याय्यते / यथा भाण्डं समाचिनोति संभाण्डयते / वस्त्रं वस्त्रेण वा समाच्छादयति संवस्त्रयतीति / 496 व्रताद् भुजितनिवृत्योः // 3 / 4 / 43 // व्रत शास्त्रविहितो नियमः। व्रतशब्दाद भोजने तनिवृत्तौ च वर्तमानात् कृगादिष्वर्थेषु णिच् प्रत्ययः स्याद् बहुलम् / पय एव मया भोक्तव्यमिति व्रतं करोति गृह्णाति वा पयो व्रतयति / सावद्यान्नं मया न भोक्तव्यमिति व्रतं करोति गृहणाति वा सावद्यानं व्रतयति / अर्थनियमार्थ आरम्भः। 497 सत्यार्थवेदस्याः // 34 // 44 // सत्यार्थवेद इत्येतेषां णिच्संनियोगे आकारान्तादेशः स्यात् / सत्यमाचष्टे करोति वा सत्यापयति / एवमर्थापयति / वेदापयति / 'त्रन्त्यस्वरादेः' इति आकारस्य लुग्न भवति विधानसामर्थ्यात् / ___ 498 श्वेताश्वाश्वतरगालोडितावरकस्याश्वतस्तकलुक // 3 / 4 / 45 // . *वेताश्व अश्वतर गालोडित आहरक इत्येतेषां णिच्सनियोगे यथासंख्यमश्वतरेतक इत्येतेषां लुक् स्यात् / श्वेताश्वमाचष्टे करोति वा श्वेताश्वेनातिकामति इति वा श्वेतयति / एवमश्वयति / गालोडितमाचष्टे करोति वा गालोडयति / एवमाहरयति / लुगर्थे वचनम् , णिच् तु पूर्वेण सिद्ध एव / प्रियस्थिरेत्यादिना प्राधादेशे भियमाचष्टे मापयति। स्थूलमाचष्टे स्थवयति / पृथु प्रथयति। अपप्रथत् / मृदं म्रदयति / अमम्रदत् / भृशं कृशं दृढं भ्रशयति / क्रशयति / द्रढयति / पृथुमृदुभृशेत्यादिना ऋतो रः / बहून् भूययति / भावयतीति केचित् / बहयतीत्यन्ये / ऊढिमाचष्टे ऊढयति / औजिढत् / ढखादीनामसत्त्वाद्धतिशब्दस्य द्विखम् / ढि इत्यस्य द्वितमित्यन्ये / औडिढत् / ऊढमाख्यत् ओजढत् / हतशब्दस्य द्विखम् / ढस्य द्वित्वे औडढत् / खां मां वाऽचष्टे खदयति / मदयति / नित्यत्वादन्त्यस्वरादिलोपात्मागेव त्वमादेशौ / त्वापयति मापयतीति केचित् / त्वादयति मादयतीत्यन्ये / युवामावामाचष्टे युष्मयति / अस्मयति / विद्वांसमाचष्टे विद्वयति / णिवर्जनानोष् / विदावयतीत्येके / विदयतीत्यन्ये / श्वानं श्वानयति / शावयतीति केचित् / शुनयतीत्यन्ये / उदश्चमाचष्टे उदयति / उदीच तु न / णिवर्जनात् / उदीचयतीत्येके / प्रत्यश्चमाचष्टे प्रत्ययति / प्रतीचयतीत्येके / दध्यश्चं दध्ययति / सम्यश्चं सम्ययति समीचयतीत्यपरे / तिर्यवं तिर्ययति / अन्त्यस्वरादिलोपस्य बहिरङ्गत्वेनासिद्धत्वात्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy