SearchBrowseAboutContactDonate
Page Preview
Page 625
Loading...
Download File
Download File
Page Text
________________ 612 सिद्धहैमबृहत्मक्रिया. [ख्यातमकरणे गृह्णाति कृतयति / एवं वर्णयति / त्वचयति / त्वचशब्दोऽकारान्तस्त्वपर्यायः / रूपं दर्शयति / रूपं निध्यायति निरूपयति / लोमान्यनुमाष्टिं अनुलोमयति / तूस्तानि विहन्ति उद्वहति वा वितूस्तयति / उत्तूस्तयति केशान् विजटीकरोतीत्यर्थः। वस्त्रं वस्त्रेण वा समाच्छादयति संवस्त्रयति / वस्त्रं परिदधाति परिवस्त्रयति / तृणान्युत्प्लुत्य शातयति उत्तृणयति / हस्तिनातिक्रामति अतिहस्तयति / एवमत्यश्वयति / वर्मणा संनयति संवर्मयति / वीणया उपगायति उपवीणयति / सेनया अभियाति अभिषेणयति / चूर्णैरवध्वंसयति अवकिरति वा अवचूर्णयति / तूलैरनुकुष्णाति अवकुष्णाति अनुगृह्णाति वा अनुतूलयति अवतूलयति / वास्था छिनत्ति वासयति / एवं परशुना परशयति / असिना असयति / वास्या परिछिनत्ति परिवासयति / वाससा उन्मोचयति उद्वासयति / श्लोकैरुपस्तौति उपश्लोकयति / हस्तेनापक्षिपति अपहस्तयति / अवेन संयुनक्ति समश्वयति / गन्धेनार्चयति गन्धयति / एवं पुष्पयति / बलेन सहते बलयति / शीलेनाचरति शीलयति / एवं सामयति / सान्त्वयति / छन्दसोपचरति उपमन्त्रयते वा उपच्छन्दयति / पाशेन संयच्छयति संपाशयति / पाशं पाशाद्वा विमोचयति विपाशयति / शूरो भवति शूरयति / वीर उत्सहते वीरयति / कूलमुल्लंघयति उत्कूलयति / कूलं प्रतीपं गच्छति प्रतिकूलयति / कूलमनुगच्छति अनुकूलयति / लोष्टानवमर्दयति अवलोष्टयति / पुत्रं सूते पुत्रयति / इत्यादि / आख्यानं नलोपाख्यानं कंसवधं सीताहरणं रामप्रव्रजनं राजागमनं मृगरमणम् आरात्रिविवासमाचष्टे इत्यादिषु इन्द्रियाणां जयं क्षीरस्य पानं देवानां यागं धान्यस्य क्रयं धनस्य त्यागं ओदनस्य पाकं करोतीत्यादिषु बहुलवचनान्न भवति / अथ हस्तौ निरस्यति हस्तयते पादयते इत्यादिवदुत्पुच्छयते इत्यादावप्युपसर्गस्यामयोगः प्रामोति। नैवम् / यत्रानेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तत्र क्रियाविशेषाभिव्यक्तये युक्त उपसर्गप्रयोगः। यथा विपाशयति संपाशयतीति / यत्र त्वेकविशेषणविशिष्टा क्रिया प्रत्ययार्थस्तत्र संदेहाभावादुपसर्गो न प्रयुज्यते / यथा श्येन इवाचरति श्येनायते / बाष्पमुद्रमति बाष्पायते / हस्तौ निरस्यति हस्तयते / पुत्रमिवाचरति पुत्रीयति / यद्येवमतिहस्तयति उपवीणयति इत्यादावेकैकविशेषणविशिष्टत्वादुपसर्गप्रयोगो न पामोति / मैवम् / अत्र णिचप्रत्ययस्य करोत्याचष्टेऽतिक्रामति इत्याधनेकार्थत्वात् संदेहे तदभिव्यक्त्यर्थमुपसर्गप्रयोगः।। यत्र पुनरनेकोपसर्गविशिष्टा क्रिया प्रत्ययार्थस्तत्र शब्दशक्तिस्वाभाव्यादेक.
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy