________________ नामधातुप्रक्रिया ] सिद्धहैमबृहत्मक्रिया. - 494 चीवरात्परिधानार्जने // 34 // 41 // चीवरशब्दात् कर्मणः परिधानेऽर्जने चार्थे णिङ् प्रत्ययो वा स्यात् / चीवरं परिधत्ते परिचीवरयते / समाच्छादनमपि परिधानम् / समाच्छादयति संचीवरयते / चीवरमर्जयति चीवरयते / संमार्जनेऽप्यन्ये / चीवरं संमार्जयति संचीवरयते / 495 णिज्बहुलं नानः कृगादिषु // 3 // 4 // 42 // कृगादीनां धातूनामर्थे नाम्नो णिच् प्रत्ययः स्याद् बहुलम् / बहुलग्रहणं प्रयोगानुसरणार्थम् / तेन यस्मान्नान्नो यद्विभक्त्यन्ताद्यस्मिन् धाखथै दृश्यते तस्मात् तद्विभक्त्यन्तात्तद्धावर्थे एव भवतीति नियमो लभ्यते / मुण्डं करोति मुण्डयति छात्रम् / एवं मिश्रयत्योदनम् / श्लक्ष्णयति वस्त्रम् / लनणयति सूपम् / एभ्यश्व्यर्थे एवेति कश्चित् / अमुण्डं मुण्डं करोति मुण्डयतीत्यादि / लघु करोति लघयति / एवं छिद्रयति कर्णयति दण्ड्यति अन्धयति अङ्कयति / व्याकरणस्य सूत्रं करोति सूत्रयति / द्वारस्योदघाटन करोति द्वारमुद्घाटयति / ननु व्याकरणशब्दात् वाक्ये षष्ठी दृश्यते उत्पन्ने च प्रत्यये कथं द्वितीया? उच्यते / योऽसौ मूत्रव्याकरणयोः संबन्धः स उत्पन्ने प्रत्यये निवर्तते सूत्रयतिक्रियासंबन्धाच द्वितीयैव / एवं द्वारमुद्घाटयति / पाप्मिन उल्लाघयति / त्रिलोकीं तिलकयतीत्याद्यपि द्रष्टव्यम् / अथ तपः करोति तपस्यतीत्यादिवत् कर्मणो वृत्तावन्तर्भूतखान्माण्डरकर्मकः प्राप्नोति / नैवम् / सामान्यकर्मान्तर्भूतं विशेषकर्मणा तु सकर्मक एव, मुण्डयति कं छात्रमिति। यद्येवं पुत्रीयतिरपि विशेषकर्मणा सकर्मकः प्रामोति पुत्रीयति कं छात्रमिति / सत्यम् / आचारक्यना तु बुद्धेरपहृतवात् इच्छाक्यन्नन्तस्य विद्यमानमपि विशेषकर्म न प्रयुज्यते / तथाहिपुत्रीयति छात्रमित्युक्ते पुत्रमिवाचरति छात्रमिति प्रतीतिर्भवति न तु पुत्रमिच्छतीति / तदुक्तम् सदपीच्छाक्यनः कर्म तदाचारक्यना हृतम् / कौटिल्येनैव गत्यर्थाभ्यासो वृत्तौ न गम्यते // मुण्डं बलीव करोतीति उभयधर्मविधाने मुण्डं शुक्लं करोतीत्यनुवादे बानभिधानान भवति / पटुमाचष्टे पटयति / एवं स्थूलं स्थवयति / दूरं दवयति / युवानं यवयति / क्षिप्रं क्षेपयति / क्षुद्रं क्षोदयति / प्रियं प्रापयति / स्थिरं स्थापयति / स्फिरं स्फापयति / पुच्छं पुच्छयति / वृक्षमाचष्टे रोपयति वा वृक्षयति। कृतं