SearchBrowseAboutContactDonate
Page Preview
Page 623
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. आख्यातप्रकरणे 489 तपसः क्यन् // 3 // 4 // 36 // तपशब्दात् कर्मणः करोत्यर्थे क्यन् प्रत्ययो वा स्यात् / तपः करोति तपस्यति / अत्र यदा व्रतपर्यायः तपःशब्दस्तदा क्यन्कर्मणो वृत्तावन्तर्भूतत्वात् अकर्मकत्वम् / यदा तु संतापक्रियावचनस्तदा क्यन्कर्मणो वृत्तावन्तर्भावेऽपि सकर्मक एव / शत्रूणां तपः करोति तपस्यति शत्रूनिति / यथा व्याकरणस्य सूत्रं करोति व्याकरणं सूत्रयति / 490 नमोवरिवश्चित्रोऽर्चासेवाश्चर्ये // 3 // 4 // 37 // नमस् वरिवस् चित्रङ्-शब्देभ्यः कर्मभ्यो यथासंख्यं पूजासेवाश्चर्येष्वर्थेषु करोत्यर्थे क्यन् प्रत्ययो वा स्यात् / देवेभ्यो नमस्करोति नमस्यति देवान् / गुरूणां वरिवः करोति वरिवस्यति गुरून् / चित्रं करोति चित्रीयते / डकार आत्मनेपदार्थः / अर्चादिष्विति किम् / नमः करोति / वरिवः करोति / नमोवरिवःशब्दमुच्चारयतीत्यर्थः। चित्रं करोति / नानात्वमालेख्यं वा करोतीत्यर्थः। ननु च नमस्यति देवानित्यत्र नमःशब्दसंयोगनिबन्धना चतुर्थी कस्मान्न भवति ? उच्यते / नामधातूनामविवक्षितप्रत्ययभेदानां धातुखादनकोऽत्र नमःशब्दः। उपपदविभक्ता कारकविभक्तिबलीयसी। एवं च नमस्करोति देवानिति वाक्येऽपि द्वितीया सिद्धा / यद्येवं नमस्करोति देवेभ्य इति नैव भवितव्यम् / नैवम् / करोतेः नमःशब्दसंबन्धेन देवपदेनासंबन्धात् / कस्मै इति खाकाङ्क्षायां देवेभ्य इति संबन्धाच्चतुर्थी संपदाने वा इत्यदोषः / 491 अङ्गान्निरसने णिङ् // 3 / 4 / 38 // अङ्गवाचिनः शब्दात् कर्मणो निरसनेऽर्थे णिङ् प्रत्ययो वा स्यात् / डकार आत्मनेपदार्थः / हस्तौ निरस्यति हस्तयते / पादयते / ग्रीवयते / निरसने इति किम् / हस्तं करोति हस्तयति / कर्मण इति किम् / हस्तेन निरस्यति / 492 पुच्छादुत्परिव्यसने // 3 / 4 / 39 // पुच्छशब्दात् कर्मण उदसने पर्यसने व्यसने असने चार्थे णिङ् प्रत्ययो वा स्यात् / पुच्छम् उदस्यति उत्पुच्छयते। पर्यस्यते परिपुच्छयते / व्यस्यति विपुच्छयते / अस्यति पुच्छयते / __493 भाण्डात्समाचितौ // 3 // 4 // 40 // भाण्डशब्दात् कर्मणः समाचयनेऽर्थे णिङ् प्रत्ययो वा स्यात् / समाचयनं च समा परिणा च धोत्यते। भाण्डानि समाचिनोति संभाण्डयते / परिभाण्डयते /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy