________________ नामधातुमक्रिया ] सिद्धहैमबृहत्पक्रिया. 609 माकृतिगणार्थम् / लोहितादिषु लोहितशब्दादेवेच्छन्त्यन्ये / षकारः क्यक्षो नवेति विशेषणार्थः / (लोहितादिषु ) धूमादीनां स्वतन्त्रार्थवृत्तीनां प्रकृतिविकारभावाप्रतीतेश्यों नास्तीति तद्वदृत्तिभ्यः प्रत्ययो भवति / अधूमवान् धूमवान् भवति धूमायति, धूमायते। 484 कष्टकक्षकृच्छ्रसत्रगहनाय पापे क्रमणे // 3 // 4 // 31 // कष्टादिभ्यो निर्देशादेव चतुर्थ्यन्तेभ्यः पापे वर्तमानेभ्यः क्रमणेऽर्थे क्यङ् प्रत्ययः स्यात् / कष्टाय कर्मणे क्रामति कष्टायते / एवं कक्षायते / कृच्छ्रायते / सत्रायते / गहनायते / कष्टादिभ्य इति किम् / कुटिलाय कर्मणे क्रामति / चतुर्थीनिर्देशः किम् / रिपुः कष्ट कामति / पाप इति किम् / कष्टाय तपसे क्रामति / क्रमणमत्र न पादविक्षेपः किंतु प्रवृत्तिमात्रम् / द्वितीयान्तेभ्यः पापचिकीर्षायामित्यन्ये / कष्टं चिकीपति कष्टायते इत्यादि। 485 रोमन्थाद् व्याप्यादुच्चर्वणे // 3 // 4 // 32 // रोमन्थात् कर्मणः पर उच्चर्वणेऽर्थे क्यङ प्रत्ययो वा स्यात् / अभ्यवहृतं द्रव्यं रोमन्थः / उद्गीर्य चर्वणमुच्चर्वणम् / रोमन्थम् उच्चवयति रोमन्थायते गौः। उद्गीर्य चर्वयतीत्यर्थः / उच्चर्वण इति किम् / कीटो रोमन्थं वर्तयति / उद्गीर्य बहिस्त्यक्तं पृष्ठान्तेन निर्गतं वा द्रव्यं गुटिकां करोतीत्यर्थः। 486 फेनोमवाष्पधूमादुधमने // 3 / 4 / 33 // फेनादिभ्यः कर्मभ्य उद्वमनेऽर्थे क्यङ् प्रत्ययो वा स्यात् / फेनमुद्वमति फेनायते / एवमूष्मायते / बाष्पायते / धूमायते / 487 सुखादेरनुभवे // 34 // 34 // साक्षात्कारोऽनुभवस्तस्मिन्नर्थे सुखादिभ्यः कर्मभ्यः क्यङ् प्रत्ययो वा स्यात् / सुखमनुभवति सुखायते / अनुभव इति किम् / सुखं वेदयते प्रसाधको देवदत्तस्य / मुखादिविकारेणानुमानतो निश्चिनोतीत्यर्थः। 488 शब्दादेः कृतौ वा // 34 // 35 // शब्दादिभ्यः कर्मभ्यः करोत्यर्थे क्यङ् प्रत्ययो वा स्यात् / णिजपवादः। शब्दं करोति शब्दायते / वैरायते / कलहायते / वाशब्दो व्यवस्थितविभाषार्थः / तेन यथादर्शनं णिजपि भवति / शब्दयति / वैश्यति / वाधिकारस्तु वाक्यार्थः /