________________ 608 सिद्ध हैमबृहत्प्रक्रिया. [आख्यातप्रकरणे यते / होडायते / किष्क्यङोस्तुल्यविषयवादसत्युत्सर्गापवादत्वे पर्यायेण प्रयोगः। ककारः सामान्यग्रहणार्थः / ङकार आत्मनेपदार्थः / .. 479 सो वा लुक् च // 3 // 4 // 27 // स इति आवृत्त्या पश्चम्यन्तं षष्ठयन्तं चाभिसंबध्यते / सकारान्तात् कर्तरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा स्यात् अन्त्यसकारस्य च लुग्वा। पय इवाचरति पयायते / पयस्यते / सरायते / सरस्यते। अन्ये खप्सरस एव सलोपो नान्यस्य अप्सरायते अन्यत्र पयस्यते इत्याघेवाहुः। क्यङ् सिद्धो लुगर्थे वचनम् / चकारो लुचः क्यङ्संनियोगार्थः। 480 ओजोऽप्सरसः // 3 / 4 / 28 // ओजःशब्दो वृत्तिविषये स्वभावात्तद्वति वर्तते। ओजःशब्दादप्सरसशब्दाच कर्तरुपमानभूतादाचारेऽर्थे क्यङप्रत्ययो वा स्यात् सलोपश्च / ओजस्वीवाचरति ओजायते / अप्सरायते / अन्ये बोजःशब्दे सलोपविकल्पमिच्छन्ति / ओजायते / ओजस्यते / 481 व्यर्थे भृशादेः स्तोः // 3 / 4 / 29 // भृशादिभ्यः कर्तृभ्यः व्यर्थे क्यङ् प्रत्ययो वा स्यात् सकारतकारयोर्यथासंभवं लुक् च / व्यर्थे इत्यनेन लक्षणया भवत्यर्थविशिष्टं प्रागतत्तवमुच्यते / करोतिस्तु कर्तुरित्यनेन व्युदस्तः / भवत्यर्थे च विधानात् क्यङन्तस्य क्रियार्थत्वं भवत्यर्थशब्दाप्रयोगश्च / अभृशो भृशो भवति भृशायते / उन्मनायते / वेहायते / अनोजस्वी ओजस्वी भवति ओजायते / अत्र तद्वत्तेरेव च्व्यर्थ इति धर्ममात्रवृत्तेन / अनोज ओजो भवति / कर्तरित्येव / अभृशं भृशं करोति / च्व्यर्थ इति किम् / भृशो भवति / प्रागतत्तत्त्वमात्रे च्वेविधानात् क्यङा चिर्न वाध्यते / भृशीभवति / 482 डाउ लोहितादिभ्यः षित् // 3 // 4 // 30 // डाचप्रत्ययान्तेभ्यो लोहितादिभ्यश्च कर्तृभ्यश्व्यर्थे क्यङ् प्रत्ययः पित् स्यात् / / ... 483 क्यङ्गो न वा // 3 // 3 // 43 // क्यङ्घन्ताद्धातोः कर्तर्यात्मनेपदं स्यात् / अपटत् पटद् भवति पटपटायति, पटपटायते / दमदमायति, दमदमायते / डाजन्तात् क्यविधानात् कृभ्वस्तिभिरिव क्यपापि योगे डाज् भवति। अलोहितो लोहितो भवति लोहितायति / लोहितायते / कर्तुरित्येव / अपटपटा पटपटा करोति / अलोहितं लोहितं करोति / च्व्यर्थ इत्येव / लोहितो भवति / बहुवचन