SearchBrowseAboutContactDonate
Page Preview
Page 620
Loading...
Download File
Download File
Page Text
________________ नामधातुमक्रिया] सिनहैमबृहत्पक्रिया. 607 क्यनि परे निपात्यते। अशनायति। उदन्यति / धनायति / क्षुत्तृङ्गध इति किम् / अशनीयति / उदकीयति / धनीयति दानाय / 475 वृषान्मथुने स्सोऽन्तः // 4 / 3 / 114 // वृषशब्दादश्वशब्दाच मैथुने वर्तमानात् क्यनि परे स्सकारः स्यात् स चान्तोऽवयवः। वृषस्यति गौः। अश्वस्यति वडवा / वृषाश्वशब्दावत्र मैथुने वर्तेते / मनुष्यादावपि प्रयुज्यते / मैथुनेच्छापर्यायौ वृषस्याश्वस्येति / 'सा क्षीरकण्ठकं वत्सं वृषस्यन्ती न लज्जिता। शुनी गौश्च स्वमश्वस्यति / ' लक्ष्मणं सा वृषस्यन्ती महोक्षं गौरिवागमत'। मैथुन इति किम् / वृषीयति, अश्वीयति ब्राह्मणी / स्स इति द्विसकारनिर्देशः पखनिषेधार्थः। तेनोत्तरत्र दधिस्यति, मधुस्यतीत्यत्र षत्वं न / 476 अस् च लौल्ये // 4 / 3 / 115 // भोक्तुमभिलाषातिरेको लौल्यम् / तत्र गम्यमाने क्यनि परे नाम्नः स्सोऽस् चान्तः स्यात् / दधि भक्षितुमिच्छति दधिस्यति, दध्यस्यति / मधुस्यति, मध्वस्यति / एवं क्षीरस्यति / लवणस्यति / अविधानमनकारार्थम् / अकारान्तेषु हि 'लुगस्यादेत्यपदे' इति लुकि सति विशेषो नास्ति / अन्यस्तु लुकममृष्यमाणः क्षीरास्यति, लवणास्यतीत्युदाहरति / एतच न बहुसंमतम् / लौल्य इति किम् / क्षीरयति दानाय / 477 कर्तुः किम् गल्भक्लीबहोडात्तु डित् // 3 / 4 / 25 // कर्तुरुपमानानाम्न आचारेऽर्थे किप् प्रत्ययो वा स्यात् गल्भक्लीबहोडेभ्यः पुनः स एव डित् / ङित्त्वादात्मनेपदम् / अश्व इचाचरति अश्वति / एवं गर्दभति / दधयति / गवति। नावति / राजेवाचरति राजनति / मधुलिडिवाचरति मधुलेहति / गोधुगिवाचरति गोदोहति / गल्भते / अवगल्भते / क्लीवते / विक्लीबते / होडते / विहोडते / गल्भाञ्चक्रे / अवगल्भाञ्चक्रे / एके तु कर्तुः संवन्धिन उपमानाद द्वितीयान्तात् विपक्यङाविच्छन्ति / अश्वमिवात्मानमाचरति गर्दभः अश्वति / श्येनमिवात्मानमाचरति काकः श्येनायते / तन्मतसंग्रहार्थ कर्तुरिति षष्ठी व्याख्येया। द्वितीयाया इति चानुवर्तनीयम् / किबिति पूर्वप्रसिद्धयनुवादः। 478 क्यङ् // 3 / 4 / 26 // कर्तरुपमानादाचारेऽर्थे क्यङ् प्रत्ययो वा स्यात् / श्येन इवाचरति श्येनायते / हंसायते / अश्वायते / गर्दभायते। गल्भायते / क्लीका
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy