SearchBrowseAboutContactDonate
Page Preview
Page 615
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [आख्यातमकरणे क्रीयते / जेहीयते / कृग्रहमो रीभावे कृते द्वित्वमिति ऋमत्त्वं नास्ति / बहुवः चननिर्देशो लाक्षणिकपरिग्रहार्थः / 457 न कवतेर्यङः // 4 / 1 / 47 // यङन्तस्य कवतेद्वित्वे सति पूर्वस्य कस्य चो न स्यात् / / कोकूयते खरः / शनिर्देशः कौतिकुवत्योनिवृत्त्यर्थः / चोकूयते / कवतिरव्यक्ते शब्दे / कुवतिरार्तस्वरे / कौतिः शब्दमात्रे / एषां पाठे शब्दमात्रार्थत्वेऽपि गत्यर्थत्वाविशेषे धावतिगच्छत्यादीनामिवार्थभेदः / यङ्लुपि च निषेधो न / चोकवीति / अन्ये तु यङ्लुप्यपि प्रतिषेधयन्ति / कोकवीति / यङ इति किम् / चुकुवे। 458 वश्वस्रन्सध्वन्सभ्रंशकसपतपदस्कन्दोऽन्तो नीः // 4 / 1 / 50 // एषां यङन्तानां द्वित्वे सति पूर्वस्य नीरन्तोऽवयवः स्यात् / वनीवच्यते / सनीखस्यते / दनीध्वस्यते / बनीभ्रश्यते / चनीकस्यते / पनीपत्यते / पनीपद्यते / चनीस्कद्यते / दीर्घविधानाद्धस्वो न / 459 व्येस्यमोर्यङि // 41185 // व्येस्यमोः सस्वरान्तस्था यङि वृत स्यात् / वेवीयते / सेसिम्यते / यङ्लुपि नेच्छन्त्यन्ये / वाव्याति / संस्यन्ति / यङीति किम् / व्ययति। 469. चायः की // 41 // 86 // चायगित्येतस्य यङि की इत्ययमादेशः स्यात् / चेकीयते / दीर्घनिर्देशो यङ्लुबर्थः / चेकीतः / 461 सिचो यङि // 2 / 3 / 60 // सिञ्चतेर्धातोः सकारस्य यङि प्रत्यये परतः षो न स्यात् / सेसिच्यते / अभिसेसिच्यते / परत्वादुपसर्गलक्षणमपि षत्वं बाधते / यङीति किम् / अभिषिषिक्षति / ङकारः किम् / अभिषिच्यते / // इति यङन्तप्रक्रिया //
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy