________________ सिद्धहमबृहत्मक्रिया. . [आख्यातप्रकरणे साधने कुटिले मा भूत् / कुटिलं पन्थानं गच्छति। कथं जंगमः? रूढिशब्दोऽयम् / . लक्षणया स्थावरमतिपक्षमात्रे वर्तते / 444 गृलुपसदचरजपजभदशदहो गये // 3 / 4 / 12 // गर्दा एवार्थे वर्तमानेभ्यो गृप्रभृतिभ्यो धातुभ्यो यङ्मत्ययः स्यान्न भृशादिषु। 445 ग्रो यङि // 2 // 3 // 101 // यङि प्रत्यये गिरते रेफस्य लकारादेशः स्यात् / गर्हितं निगिरति निजेगिल्यते / गृणातेस्तु यडेव नास्ति / केचिसु तस्यापीच्छन्ति, लत्वं तु नेच्छन्ति / यडीति किम् / निगीर्यते / लोलुप्यते / सासघते / 446 चरफलाम् // 4 / 1153 // बहुवचनं 'विफला विशरणे' इत्यस्यापि परिग्रहार्थम् / चरफलत्रिफला इत्येषां यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तः स्यात् / 447 ति चोपान्त्यातोऽनोदुः॥४।११५४॥ यङन्तानां चरफलां तकारादौ च प्रत्यये उपान्त्यस्यात उरादेशः स्यात् ‘स चानोत् / तस्य गुणो न / चञ्चूर्यते / पंफुल्यते / अत इति किम् / चारयतेः फालयतेश्च किए / ततो यङ्-चश्चार्यते। पंफाल्यते। अत्रैकदेशविकृतानन्यत्वात् पामोति। अनोदिति किम् / चंचूर्ति / पंफल्ति / अत्र गुणो न। 448 जपजभदहदशभञ्जपशः // 4 / 152 // एषां यङन्तानां द्वित्वे सति पूर्वस्य मुरन्तः स्यात् / जञ्जप्यते / जञ्जभ्यते / दन्दह्यते / दन्दश्यते / गृलुपेत्यत्र दंशेः कृतनलोपस्य निर्देशो यलुप्यपि नलोपार्थः। दंदशीति / अन्यस्तु नलोपं नेच्छति। बम्भज्यते / पशिति सौत्रो धातुः पंपश्यते / गृलुपेत्यत्र गद्य एवेति नियमः किम् / भृशं पुनःपुनर्वा निगिरति कुटिलं चरतीत्यत्र मा भूत् / धात्वर्थविशेषणं किम् / माधने गये मा भूत् / 449 न गृणाशुभरुचः॥३।४।१३॥ गृणातिशुभिरुचिभ्यो भृशाभीक्ष्ण्यादौ यङ् न स्यात् / गर्हितं गृणाति / भृशं शोभते / भृशं रोचते / ____450 ईय॑जनेऽयपि // 4 // 3 // 97 // मापास्थासादामाहाकामन्तस्य यप्वर्जिते किति अशिति व्यञ्जनादौ प्रत्यये परे ई: स्यात् / गैं गाङ्वा-जेगीयते / गाडगेभेच्छन्त्यन्ये / पा-पेपीयते / स्था-तेष्ठीयते / सो-सेषीयते / सैं-सेसीयते /