________________ यङन्तप्रक्रिया ] सिद्धहैमबृहत्प्रक्रिया. भृशाभीक्ष्ण्ये इति किम् / पचति / वेति किम् / लुनीहि लुनीहीत्येवायं लुनातीत्यादि यथा स्यात् / ' आ गुणावन्यादेः' इत्यनेन विधीयमानावाकारगुणौ यङ्निमित्तौ नेति यङ्लुप्यपि भवतः / पापचीति / अन्यादेरिति किम् / वनीवच्यते / यंयम्यते / नरीनृत्यते / नरिननति / नर्नति / ननु चात्र अपवादत्वान्न्यादय एव बाधका भविष्यन्ति किं न्यादिवर्जनेन ? सत्यम् , द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधक इति ज्ञापनार्थम् / तेन अचीकरदित्यत्र ‘लघोर्दीर्वोऽस्वरादेः' इति सन्वत्कार्य न वाध्यते / 440 योशिति // 4 / 3 / 80 // व्यञ्जनान्ताद्धातोः परस्य यकारस्याशिति प्रत्यये लुक् स्यात् / अपापचिष्ट / पापचाञ्चक्रे / पापचिता / पापचिष्यते / सोमूचिता, शाशयिता कुषुभितेत्यत्र णिज्लोपे शयादेशेऽस्य लोपे च व्यञ्जनान्तता। अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति / तन्मतसंग्रहाथै व्यञ्जनान्ताद्धातोर्विहितस्येति विहितविशेषणं कार्यम् / धातोरित्येव / पुत्रकाम्यिता / व्यञ्जनादित्येव / कण्डूयिता / आशितीति किम् / बेभिद्यते / 441 अटयतिमूत्रिमूत्रिसूच्यशूर्णोः // 3 / 4 / 10 // एभ्यो भृशाभीक्ष्ण्ये वर्तमानेभ्यो यङ् प्रत्ययः स्यात् / भृशं पुनःपुनर्वाटति अटाट्यते / एवमियति ऋच्छति वा अरार्यते / सूत्रण-सोमूत्र्यते। मूत्रण-मोमूत्र्यते / सूचण्-सोसूच्यते / अनुते अश्नाति वा अशाश्यते / ऊर्गुगक्-पोर्गोनूयते / अट्यर्त्यशामव्यञ्जनादित्वात् सूत्रिमूत्रिसूचीनामनेकस्वरत्वात् ऊर्णोतेरव्यञ्जनाद्यनेकस्वरत्वादमाप्ते वचनम् / दीर्घश्वीति दीर्घ तोष्टूयते / - 442 गत्यर्थात् कुटिले // 3 / 4 / 11 // व्यञ्जनादेरेकस्वराद् गत्यर्थात् कुटिल एवार्थे वर्तमानात् धातोर्यङ् स्यान्न भृशाभीक्ष्ण्ये / तक्रकौण्डिन्यन्यायेन भृशाभीक्ष्ण्ययोनिषेधार्थ वचनम् / भृशाभीक्ष्ण्ये कुटिलयुक्ते एव यङ् न केवल इत्यन्ये / एवमुत्तरत्रापि / 443 मुरतोऽनुनासिकस्य // 4 // 1 // 51 // अकारात्परो योऽनुनासिकस्तदन्तस्य धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य मुरन्तः स्यात् / कुटिलं क्रामति चङ्गम्यते / दन्द्रम्यते / कुटिल इति किम् / भृशमभीक्ष्णं वा कामति / धात्वर्थविशेषणं किम् /