________________ 598 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे तुष्टाव / षणीति किम् / सिषेव / सुष्वाप / षत्वं किम् / सुषुप्सति / तिष्ठासति / नकारः किम् / व्यतिसुषुपिणे / कथं प्रतीषिषति / अधीषिषति ? पणि निमित्ते धातोः पखनियम उक्तः। इह तु सन एव द्विरुक्तस्य षत्वं न धातोरिति न प्रतिषेधः। सोषुपिषते, सेषिविषते इत्यादौ तु यङि द्वित्वं पश्चात् सन्निति न प्रतिषेधः। येषां तु दर्शने द्वित्वेऽपि पुनः सनि द्विरुक्तिः तन्मते सुसोषुपिषत इत्यत्र पणि सुशब्दात् परस्य सस्य षत्वं न भवत्येव / ...437 स्वजेर्वा // 2 // 3 // 38 // इकारान्तनिर्देशात्सञ्ज इह ण्यन्तो गृह्यते / सञ्जयते म्यन्तस्थाकवर्गात् परस्य षणि परे सस्य षो वा स्यात् / सिसञ्जयिषति / सिपञ्जयिषति / नित्यं पत्त्वमित्येके / // इति सन्नन्तप्रक्रिया // // अथ यङन्तप्रक्रिया // . 438 व्यञ्जनादेरेकस्वराशाभीक्ष्ण्ये यङ् वा // 3 / 4 / 9 // गुणक्रियाणामधिश्रयणादीनां क्रियान्तराव्यवहितानां साकल्येन संपत्तिः फलातिरेको वा भृशत्वम् / प्रधानक्रियाया विक्लेदादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम् / तद्विशिष्टेऽर्थे वर्तमानाद्धातोर्व्यञ्जनादेरेकस्वराधङ् प्रत्ययो वा स्यात् / डकार आत्मनेपदार्थः / सन्याश्चेति द्वित्वे / 439 आगुणावन्यादेः // 41 // 48 // धातोर्यङन्तस्य द्वित्वे सति पूर्वस्यान्यादेनीमुरीरिरन्तवर्जितस्याकारो गुणश्वासन्नौ स्याताम् / भृशं पुनःपुनर्वा पचति पापच्यते / अथाभीक्ष्ण्ययङन्तस्याभीक्ष्ण्ये द्वित्वं कस्मान्न भवति / उक्तार्थत्वात् / यदा तु भृशार्थयङन्तादाभीक्ष्ण्यविवक्षा तदा भवत्येव / पापच्यते, पापच्यते / तथा भृशार्थयङन्तादाभीक्ष्ण्ये आभीक्ष्ण्ययङन्ताद्वा भृशार्थे विवक्षिते यदा पञ्चमी तदा सा केवला तदर्थद्योतनेऽसमर्थति तदर्थद्योतने द्विवचनमपेक्षते / पापच्यस्व, पापच्यस्वेति / धातोरित्येव / तेन सोपसर्गान्न भवति / भृशं पात्ति। व्यञ्जनादेरिति किम् / भृशमीक्षते / एकस्वरादिति किम् / भृशं चकास्ति / केचिजागतेरिच्छन्ति / जाजाग्रीयते / सर्वस्माद्धातोरायादिप्रत्ययरहितात् केचिदिच्छन्ति / अटाट्यते। दादरियते /