SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्प्रक्रिया. आख्यातमकरणे 429 तनो वा // 4 / 1 / 105 // तनोतेधुंडादौ सनि परे स्वरस्य दीर्घो वा स्यात् / तितांसति / तितंसति / धुटीत्येव / तितनिषति / ... 430 रभलभशकपतपदामिः // 41 // 21 // एषां स्वरस्य सकारादौ सनि परे इकार आदेशः स्यात् न चैषां द्विः। बहुवचनं शकीचशक्लंटोरुभयोरपि परिग्रहार्थम् / पित्सति / पिपतिषति / आरिप्सते / लिप्सते / शिक्षते / पित्सते / दृ इति वृग्वङोहणम् / मावुवृर्षति / प्राविवरीषति / वुवर्षते / विवरिषते / विवरीषते / ऋदन्त-तितीर्षति / तितरिषति / तितरीषति / चिकीर्षतीत्यत्र तु लाक्षणिकत्वान्न भवति / दरिद्रा-दिदरिद्रासति / दिदरिद्विषति / योः ‘ग्रहगुहश्च सनः' भ्रस्जभृगोस्तुसामान्येन प्रतिषेधेऽन्येषां च नित्यमिटि प्राप्ते [ इटवेति ] विकल्पोऽयम् / ___431 ऋस्मिपूङञ्जशौकृगृधृप्रच्छः // 44 // 48 // पृथग्योगादेति निटत्तम् / एभ्यः परस्य सन आदिरिट् स्यात् / ऋ-अरिरिषति / स्मि-सिस्मयिषते / पूर-पिपविषते / अनुबन्धनिर्देशात् पूगः पुपूषति, पुपूषते / अञ्-अञ्जिजिषति / अशौ-अशिशिषते / अनातेस्त्विडस्त्येव / कृ-चिकरिपति / चिकरीपति / गृजिगरिषति / जिगरीषति / वृतो नवेत्यादिना पक्षे दीर्घत्वम् / अन्ये तु व्यवस्थितविभाषयाऽस्येटो दीर्घत्वं नेच्छन्ति / टुङ्-आदिदरिषते / धुंङ्-आदिधरिषते / प्रच्छ्-पिपृच्छिषति / प्रच्छसहचरिताः कृगृध इत्येते तौदादिकाः / तेन कृणातेश्चिकीर्षति। चिकरिषति। चिकरीषति / गृणातेः जिगीर्षति / जिगरिषति। जिगरीपति / धरतेर्दिधीर्षतीत्येव भवति / ऋस्मिपूधृप्रच्छामप्राप्ते शेषाणां विकल्पे प्राप्ते वचनम् / 432 अव्याप्यस्य मुचेर्मोग्वा // 4 / 1 / 19 // मुचेरकर्मकस्य सकारादौ सनि परे मोक् इत्ययमादेशो वा स्यात् न चास्य द्विः / मोक्षति, मुमुक्षति चैत्रः। मोक्षते मुमुक्षते वा वत्सः स्वयमेव | अव्याप्यस्येति किम् / मुमुक्षति वत्सं चैत्रः / 433 मिमीमादामित्स्वरस्य // 41 // 20 // मिमीमा इत्येतेषां दासंज्ञकानां च स्वरस्य सकारादौ सनि परे इदादेशः स्यान्न चैषां द्विः / मीति मीञ्चमींगशोहणम् / मित्सते / प्रमित्सति / पमित्सते शत्रून् / मेति मामायन
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy