________________ 695 सन्नन्तप्रक्रिया ] सिद्धहैमबृहत्मक्रिया. नादेरिति किम् / ओषिषिषति / सेडित्येव / बुभुक्षते / अय्व इति किम् / दिदेविषति / 10. 424 इवृधभ्रस्जदम्भाश्रयूर्णभरज्ञपिसनितनिपतिवृदरिद्रः सनः 4 / 4 / 47 // इवन्तेभ्य ऋधभ्रस्जदम्भश्रियुऊणुभरतिज्ञपिसनितनिपतिभ्य ऋकारान्तेभ्यो दरिद्रातेश्च परस्य सन आदिरिड् वा स्यात् / दुयूषति / सिस्यूषति / सिसेविषति / , 425 ऋध ईत् // 4 / 1 / 17 // ऋधः सकारादौ सनि परे ईत् इत्यादेशो न चास्य द्विः / इसति / सीत्येव / अदिधिषति / 'भृजो भज् ' विभ्रक्षति / विभक्षति / विभर्जिपति / विभ्रजिपति / ___ 426 दम्भो धिप धीप् // 4 / 1 / 18 // दम्भेः सकारादौ सनि परे धिप् धीप इत्येतावादेशौ स्याताम् न चास्य द्विः। धिप्सति / धीप्सति / सीत्येव / दिदम्भिषति / शिश्रीपति / शिश्रयिषति / युयूषति / ओर्जान्तस्थेतीकारः / यियविषति / प्रोणुनूपति / प्रोणुनुविषति / प्रोणुनविषति। बुभूपति। विभरिषति / शनिर्देशो यङ्लुपो विभतेश्च निवृत्त्यर्थः। विभतेरपीच्छन्त्येके / इडभावपक्षे गुणमपि / विभर्षति / विभरिषति / तन्मतसंग्रहार्थ कृतगुणस्य भृगो निर्देशः। तेन इडभावपक्षेऽपि गुणो भवति / 427 ज्ञप्यापो ज्ञीपी न च द्विः सि सनि // 4 / 1 / 16 // ज्ञपेरापेश्च सकारादौ सनि परे यथासंख्यं ज्ञी पीप इत्येतावादेशौ स्याताम् , न चानयोरेकस्वरोंऽशो द्विः। आदेशे कृते द्वित्वं प्रामोतीति निषिध्यते / आदेशसंनियोगे च निषेधात् अन्यत्र द्वित्वं भवत्येव / ज्ञीप्सति / सीत्येव / जिज्ञपयिषति / ईप्सति / ज्ञपीति कृतहस्वस्योपादानात् ज्ञापेर्जिज्ञापयिषतीत्येव / सनीति सनतेः सनोतेश्च ग्रहणम् / 428 सनि ॥४।२।६१॥खनादीनां धुडादौ सनि परतोऽन्तस्यात्वं स्यात् / सिषासति / खनिजनोरिटा भवितव्यमिति धुडादिः सन्न भवति / धुटीत्येव / सिसनिषति / /