SearchBrowseAboutContactDonate
Page Preview
Page 607
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे 421 सनीङश्च // 4 / 4 / 25 // इङ इणिकोश्चाज्ञाने वर्तमानयोः सनि परे गमुरादेशः स्यात् / अज्ञान इति इण एव विशेषणं नेडिकोरसंभवात् / ____422 प्राग्वत् // 33174 // सनः प्राक प्रा यो धातुस्तस्मादिव सन्नन्तात् कर्तर्यात्मनेपदं स्यात् / यत्पूर्वस्य धातोरनुबन्धेनोपपदेनार्थविशेषेण वात्मनेपदं दृष्टं तत्सन्नन्तादतिदिश्यते / इङ्-अधिजिगांसते विद्याम् / इण्-अधिजिगमिपति ग्रामम् / इक्-मातुरधिजिगमिषति / ज्ञाने तु अर्थान् प्रतीषिषति / णौ सन् के वेति वा इडो गाडादेशे अधिजिगापयिषति / अध्यापिपयिषति / यत्पुनः समत्ययधातुनिमित्तं तत् (प्राग्वत् इत्यनेन) नातिदिश्यते / शिशित्सति / मुमूर्षति / अत्र हि न शदिम्रियती एव निमित्ते किं तर्हि शिदाशीरद्यतन्योऽपि / अनुबन्धादिनिमित्तमपि यद् विशेषविधानबाधया प्राग्न 'दृष्टं तन्नातिदिश्यते / यथा अनुकरोति-अनुचिकीर्षति / पराकरोति-पराचिकीर्षति / तिजादीनां बर्थविशेषेषु केवलानामप्रयोगात् सन्नन्तसमुदायार्थमेव अनुबन्धविधानम् / तेन तितिक्षते, जुगुप्सते, मीमांसते, इत्यादौ प्रागदृष्टमपि आत्मनेपदमनुबन्धसामर्थ्याद् भवति / यथा कुस्मिचित्रमहीहृणीङामनुबन्धो णिच्क्यन्यगन्तसमुदायार्थः। विकुस्मयते, चित्रीयते, महीयते, हणीयते / अवयवे वा कृतं लिङ्गं समुदायस्य विशेषकं भवति यं समुदायं सोऽवयवो न व्यभिचरति / यथा गोः सक्थनि कर्णे वा कृतं लिङ्गं चिन्हं गोरेव विशेषकं भवति न गोमण्डलस्य / सन्नन्तं च समुदाय तिजादयोऽर्थविशेषेषु न व्यभिचरन्ति णिगन्तं पुनर्व्यभिचरन्ति / ननु सन्नन्तमपि व्यभिचरन्ति तेजयति, गोपायति, मानयतीति / नैवम् / अर्थविशेषेषु न व्यभिचार इत्युक्तत्वात् / शीङ् शिशयिषते / निविविक्षते / शास्त्रेऽस्य क्रमते बुद्धिः, चिकंसते उभयेन / उपान्त्ये / बिभित्सते / बुभुत्सते / विवृत्सति / विवर्तिषति / अनिडित्येव / विवधिपते। नामिन इत्येव / यियक्षति। विवत्सति। कृततेतीविकल्पे निनृत्सति / निनतिषति / चिकृत्सति / चिकतिषति / 423 वौ व्यञ्जनादेः सन्चायवः // 4 / 3 / 26 // वौ उकारे इकारे चोपान्त्ये सति व्यञ्जनादेर्धातोः परः क्त्वा सन् च सेटौ वा किद्वत्स्याताम् 'अय्वः' यकारान्ताद् वकारान्ताच न भवतः / दिद्युतिषते / दिद्योतिषते / मुमुदिषते / मुमोदिषते / लिलिखिषति / लिलेखिषति / शिश्चितिषते / शिश्वेतिषते / व्यञ्ज
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy