________________ सन्नन्तमक्रिया] सिद्धहैमबृहत्मक्रिया. 593 किम् / भोक्तुं व्रजति / अतत्सन इति किम् / चिकीर्षितुमिच्छति। तद्ग्रहणं किम् / जुगुप्सिषते / सनोऽकारः किम् / अर्थान् प्रतीषिषति / कथं नदीकूलं पिपतिषति ? पतितुमिच्छतीति वाक्यवदुपमानाद् भविष्यति / अपिपठिषीत् / पिपठिषाञ्चकार / पिपठिष्यात् / पिपठिषिता / पिपठिषिष्यति / स्वरादेद्वितीयः / अटिटिषति / घस्लसनद्यतनीति घस्लादेशे अत्तुमिच्छति जिघत्सति / अजिघत्सीत् / 415 यिः सन्वेयः // 4 / 1 / 11 // ईष्यतेर्विचनभाजो यिः सन् वा द्विः स्यात् / ईयियिषति / ईष्यिषिषति / 416 ग्रहगुहश्च सनः // 4 / 4 / 60 // ग्रहिगुहिभ्यामुवर्णान्ताच्च धातोविहितस्य सन आदिरिट् न स्यात् / 417 रुदविदमुषग्रहस्वपप्रच्छः सन् च // 4 / 4 / 32 // सेडिति निवृत्तम् / एभ्यः परः सन् क्त्वा च किद्वत्स्याताम् / जिघृक्षति / जुघुक्षति / रुरुदिषति / विविदिषति / मुमुषिषति / सुषुप्सति / पिपृच्छिषति / रुदविदमुषो 'वौ व्यञ्जनादेः सन् चाऽय्यः' इति विकल्पे आहेस्तु 'त्वा' इति प्रतिषेधे प्राप्ते वचनम् / स्वपिप्रच्छ्योः सन्नर्थमेव / गुहेरिटमपीच्छत्यन्यः। जुगहिषन् मत्तगजोऽभ्यधावत् / स्वापयितुमिच्छति / 418 स्वपो णावुः // 4 / 1 / 62 // स्वपेरें सति द्वित्वे कृते पूर्वस्योकारान्तादेशः स्यात् / स्वर्णौ णके क्यनि णौ के च असुष्वापकीयत् / स्वापेः किबन्तात् कर्तुः किपि यङ् सोष्वाप्यते / अन्ये तु णौ सति द्वित्वनिमित्तानन्तर्य एवेच्छन्ति / स्वापकीयतेः सनि सिष्वापकीयिषति / णाविति किम् / णकान्तात क्यनि सनि च सिष्वापकीयिषति / स्वपो णाविति किम् / स्वापं चिकीर्षति सिष्वापयिषति / अत्र न स्वपेणिर्घजा व्यवधानात् / स्वपो णौ सति द्वित्व इति किम्। सोषोपयिषति / अत्र यङ्लुबन्तात् द्वित्वे सति गिर्न तु णौ सति द्वित्वमिति / 419 नामिनोनिट् // 4 // 3 // 33 // नाम्यन्ताद्धातोरनिट् सन् किद्वत्स्यात् / 420 स्वरहनगमोः सनि धुटि // 4 / 1 / 104 // स्वरान्तस्य धातोर्हन्तेर्ग: मोश्च धुडादौ सनि परे स्वरस्य दीर्घः स्यात् / चिचीपति / चेः किर्वा / चिकीपति / तुतूपति / कृगः सनि चिकीर्षति / हन्तुमिच्छति जिघांसति / गम्विति इणिजिकादेशस्य गमेर्ग्रहणम् /