SearchBrowseAboutContactDonate
Page Preview
Page 605
Loading...
Download File
Download File
Page Text
________________ 592 सिद्धहैमबृहत्प्रक्रिया. [आख्यातप्रकरणे गोहःस्वरे / निगृहयति। ओणेदित्करणाल्लिङ्गात् नित्यादपि द्विवचनात् मागेवोपान्त्यहस्व इति मा भवानाटिटत् / मा भवानानिदिधत् / मा भवान् मेदिधत् / आशिशत् / साहयति / न्यसीपहत् / अत्र असोङसिवूसहस्सटामिति सोविषयस्य विषयस्य च वर्जनात् सस्य पत्वं न / एवं पर्यसीषिवत् / व्यतस्तम्भत् / प्राणयति / पाणिणत् / न बदनं संयोगादिः / औजिजत् / आड्डित् / औन्दिदत् / 411 णावज्ञाने गमुः // 4 / 4 / 24 // इणिकोरज्ञाने वर्तमानयोणी विषये गमु इत्ययमादेशः स्यात् / उकारः 'स्वरहन्गमोः सनि धुटि' इत्यत्र विशेषणार्थः। गमयति ग्रामम् / अधिगमयति प्रियम् / अज्ञान इति किम् / अर्थान् प्रत्यायति / अज्ञान इतीणो विशेषणं नेकोऽसंभवात् / धावन्तरेणैव सिद्धे णाविको ज्ञानादन्यत्रेणश्च रूपान्तरनिवृत्त्यर्थं वचनम् / कथमर्थान् गमयन्ति शब्दाः। गमिनैव सिद्धम् / ईjयति / ऐषिष्यत् / 412 रभोऽपरोक्षाशवि // 4 / 4 / 103 // रमतेः स्वरात्परःपरोक्षाशववर्जिते स्वरादौ प्रत्यये परे नोऽन्तः स्यात् / आरम्भयति / आ(रम्भत / अपरोक्षाशवीति किम् / आरेभे / आरभते / - 413 लभः // 4 / 4 / 104 // लभतेः स्वरात्परः परोक्षाशववर्जिते स्वरादौ प्रत्यये परे नोऽन्तः स्यात् / लम्भयति / अपरोक्षाशवीत्येव / लेभे / लभते / लभेः परस्मैपदस्याप्यभिधानात् लभन्ती स्त्रीति केचित् / स्वर इत्येव / लब्धा / योगविभाग उत्तरार्थः। // इति ण्यन्तप्रक्रिया // // अथ सन्नन्तप्रक्रिया // 414 तुमर्हादिच्छायां सन्नतत्सनः // 3 / 4 / 21 / / यो धातुरिषेः कर्म इपिणैव च समानकर्तृकः स तुमर्हः, तस्मादिच्छायामर्थे सन् प्रत्ययो वा स्यात् न चेत्स इच्छासन्नन्तो भवति / नकारः सन्ग्रहणेषु विशेषणार्थः। सन्यङश्चेति द्विवम् / सन्यस्येति पूर्वस्येकारे नाम्यन्तस्थेति षत्वे च पठितुमिच्छति पिपठिषति / तुमर्हा दिति कि / अकर्मणोऽसमानकर्तृकाच मा भूत् / गमनेनेच्छति / इच्छायामिति
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy