SearchBrowseAboutContactDonate
Page Preview
Page 602
Loading...
Download File
Download File
Page Text
________________ 589 ण्यन्तप्रक्रिया ] सिद्धहैमबृहत्यक्रिया. 391 वियः प्रजने // 4 / 2 / 13 // प्रजनो जन्मन उपक्रमो गर्भग्रहणम् / तस्मिन् वर्तमानस्य वी इत्येतस्य णौ परे आत्वमन्तादेशो वा स्यात् / पुरो वातो गाः प्रवापयति / प्रवाययति / गर्भ ग्राहयतीत्यर्थः / वातेः प्रजने वृत्तिर्नास्तीति आरंभः। 392 रुहः पः // 4 / 2 / 14 // रुहेर्णी परतः पफारोऽन्तादेशो वा स्यात् / रोपयति रोहयति व्रीहीन् / रोहत्यर्थे रुप्यतिन दृश्यते इति योगारंभः / लियो नोऽन्त इति वा ने घृतं विलीनयति, विलाययति / कृतात्वस्य तु लकारपकारी विलालयति, विलापयति / ____393 पातेः // 4 / 2 / 17 // पृथग्योगाद्वेति निवृत्तम् / पांक रक्षणे इत्येतस्य णौ परे लोऽन्तः स्यात् / पालयति / अपीपलत् / 'पलण् रक्षणे' इति चौरादिकेनैव सिद्धे पातेोऽन्तः स्यादिति वचनम् / तिनिर्देशो धात्वन्तरनिवृत्त्यर्थः। पा पाने, पैं शोषणे वा, पाययति / यलुग्निवृत्त्यर्थश्च / पापाययति / 394 वो विधूनने जः॥४।२।१८॥वा इत्येतस्य विधूननेऽर्थे णौ परेजोऽन्तः स्यात् / पक्षकेण उपवाजयति / अवीवजत् / विधूनन इति किम् / ओ केशानावापयति / शोषयतीत्यर्थः / वजिनैव सिद्धे वाते रूपान्तरनिवृत्त्यर्थ वचनम् / 395 पाशाछासावेव्याहो यः॥४।२।२०॥ एषां णौ परे योऽन्तः स्यात् / पोरपवादो योगः। पां पाने, मैं शोषणे वा, पाययति / पातेस्तु लकार उक्तः। शोंच शाययति / छौंच अवच्छाययति / सों मैं वा अवसाययति / वेंग वाययति / वे इत्यनात्वेन निर्देशो वाक् गतिगन्धनयोः, ओवै शोषणे इत्यनयोनिवृत्यर्थः / वापयति / व्यग् व्याययति / वेग हाययति / एषां कृतात्वानां ग्रहणादिह प्रकरणे लाक्षणिकस्यापि ग्रहणं भवति / तेन क्रापयतीत्यादि सिद्धम् / पैं शोषणे इत्यस्य अद्यतन्यां अपीपयत् / पिबतेस्तु / 396 पिवः पिप्य् // 4 / 1 // 33 // ण्यन्तस्य पिबते. परे पीप्य इत्ययमादेशः स्यात् न चायं द्विः। अपीप्यत् / पिबतिनिर्देशात् पातेन / अपीपलत् / लुप्ततिनिर्देशाधङ्लुप्यपि न / अपापयत् / शोंच्-अद्यतनी-अशीशयदित्यादि / हेंग अद्यतन्याम्
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy