________________ सिद्धहैमबृहत्पक्रिया. [आख्यातमकरणे 397 णौ ङसनि // 4 / 1 / 88 // यतेः सस्वरान्तस्था ङपरे सन्परे च णौ विषये यत् स्यात् / अजूहवत्। णाविति विषयसप्तमी किम्। णिविषय एवान्तरङ्गमपि मकारागमं बाधित्वा य्यथा स्यात् / 398 श्वेर्वा ॥४।१।८९॥श्वयतेः सस्वरान्तस्था ङपरे सन्परे च णौ विषये यवृद्वा स्यात् / अशूशवत् / अशिश्चियत् / विषयविज्ञानादन्तरङ्गमपि वृद्धयादिकं यता बाध्यते। कृते च तस्मिन् वृद्धिः, तत आवादेश उपान्त्यहस्वत्वम् / ततो णिकृतस्य स्थानित्वात् शोद्वित्वं ततः पूर्वदीर्घ इति क्रमः। 399 स्फाय स्फा // 4 / 2 / 22 // स्फायतिौँ परे स्फाव इत्ययमादेशः स्यात् / स्फावयति / अभेदनिर्देशोऽन्ताधिकारनिवृत्त्यर्थः / 400 शदेरगतौ शात् // 4 / 2 / 23 / / शीयतेरगतावर्थे णौ परे शात् इत्ययमादेशः स्यात् / पुष्पाणि शातयति। अगताविति किम् / गोपालको गाः शादयति / गमयतीत्यर्थः / 401 कगेवनूजनैजृषकस्रञ्जः // 4 / 2 / 25 / / एषां णौ परे इस्वः स्यात् त्रिणम्परे तु णौ वा दीर्घः। कगे-इति सौत्रो धातुः। एकारश्चैदिकार्थः। कगयति / वन्-उपवनयति / जन-जनयति / जृष्-जरयति / कस्-कसयति / रञ्जेस्तु / 402 णौ मृगरमणे // 4 / 2 / 51 // र रुपान्त्यनकारस्य णौ परे मृगाणां रमणे-क्रीडायामर्थे लुक् स्यात् / रजयति मृगान् व्याधः / मृगरमण इति किम् / रञ्जयति रजको वस्त्रम् / रञ्जयति सभां नटः। नलोपे वचनस्य चरितार्थत्वात नलोपाभावे ' अरञ्जि' इत्यादौ दीर्घो न / केचित्तु ष्णसूच निरसने इत्यस्यापि (इस्वम् ) इच्छन्ति / वन् इत्यूकारनिर्देशात् 'वन भक्तौ' इत्यस्य न भवति / वानयति / कगादीनां तु अर्थविशेषो नोपादीयते / 403 अमोऽकम्यमिचमः // 4 / 2226 // कम्यमिचमिवर्जितस्यामन्तस्य धातोर्णौ परे इस्वः स्यात् त्रिणम्परे तु णौ वा दीर्घः। रमयति / दमयति / गमयति / कथं संक्रामयति ? संक्रामन्तं करोतीति शत्रन्ताणिजि भविष्यति / अकम्यमिचम इति किम् / कामयते / आमयति / आचामयति /