SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 588 सिद्धहैमबृहत्पक्रिया. [आख्यातमकरणे देईस्वः' इति इस्वे घटयति / अजीघटत् / स्मरयति / स्मदृत्वरेति अः। असस्मरत् / अददरत् / अतत्वरत् / 385 वा वेष्टचेष्टः // 41 // 66 // वेष्टचेष्टोर्धात्वोरसमानलोपे ङपरे णौ द्वित्वे सति पूर्वस्य आकारान्तादेशो वा स्यात् / अववेष्टत् / अविवेष्टत् / अचचेष्टत् / अचिचेष्टत् / भ्राजभासेति ह्रस्व विकल्पे पूर्वस्य सन्वद्भावेनेत्वे अविभ्रजत् / अबभ्राजत् / अविभ्रसत् / अबभ्रासत् / अदीदिपत् / अदिदीपत् / वर्तयति / ऋदृवर्णस्येति ऋत्वे पक्षे गुणः। अवीवतत् / अववर्तत् / अर्तीति पुः। अपयति / आर्पिपत् / रेपयति / व्लेपयति / हेपयति / 386 वोः प्वव्यञ्जने लुक् ॥ठो।११। पौ यकाररहितव्यञ्जनादौ च प्रत्यये यकारवकारयोर्लक् स्यात् / पुग्रहणममत्ययार्थम् / लोपयति / क्षमापयति / कथं वृक्षवयतीति वृक्ष ? णिलुकः थानिवत्त्वाद् भविष्यति / यवर्जनं किम् / य्यते / व्यञ्जन इति किम् / क्नूयिता / प्रत्ययापत्यययोः प्रत्ययस्यैव ग्रहणात् धात्ववयवे न भवति / वश्चकः / स्वापयति / स्वपेर्यढे चेति यत् / ततो द्वित्वे असूषुपत् / 387 णौ क्रीजीङः // 4 // 2 // 10 // क्रोंग जि इङ् इत्येतेषां णौ परे आकारोऽन्तादेशः स्यात् / क्रापयति / जापयति / अध्यापयति / 388 णौ सन्डे वा // 4 // 4 // 27 // सन्परे ङपरे च णौ परत इङो गादेशो वा स्यात् / अध्यजीगपत् / अध्यापिपत् / णाविति किम् / अधिजिगांसते / सन्ङ इति किम् / अध्यापयति / 389 सिध्यतेरज्ञाने // 4 / 2 / 11 // पिधूच् संराद्धावित्यस्याज्ञाने वर्तमानस्य णौ परतः स्वरस्याकारः स्यात् / मन्त्रं साधयति / अन्नं साधयति साधर्मिकेभ्यो दातुम् / अज्ञान इति किम् / तपस्तपस्विनं सेधयति / सिध्यति जानीते तपस्वी ज्ञानविशेषमासादयति तं तपः प्रयुङ्क्ते इत्यर्थः। सिध्यतेरिति किम् / पिधू गत्यामिति भौवादिकस्य मा भूत् / अन्नं सेधयतीति प्रयोगनिवृत्त्यर्थ वचनम् / 390 चिस्फुरोर्नवा // 4 / 2 / 12 // चिनोतेः स्फुरतेश्च णौ परे स्वरस्यात्वं वा स्यात् / चापयति / चाययति / स्फारयति / स्फोरयति /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy