________________ ण्यन्तप्रक्रिया] सिद्धहैमबृहत्प्रक्रिया. 587 प्राप्तावपि परस्मैपदमित्यन्ये / सर्वं भवति मामोतीत्यर्थः। अवकल्कने तु भावयतीत्येव / भूण् अवकल्कने इति चुरादौ पाठात् / 383 प्रयोक्तृव्यापारे णिग् // 3 / 4 / 20 // कर्तारं यः प्रयुङ्क्ते स प्रयोक्ता तयापारेऽभिधेये धातोणिग् प्रत्ययो वा स्यात्। व्यापारश्च प्रेषणाध्येषणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदैरनेकधा भवति / तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम् / सत्कारपूर्वकस्त्वध्येषणम् / गकारस्तूभयपदार्थः। भवन्तं प्रयुङ्क्ते भावयति / भावयते / पचन्तं प्रयुङ्क्ते पाचयति / अत्र प्रेषणेनाध्येषणेन वा यथासंभवं प्रयोक्तृत्वम् / वसन्तं प्रयुङ्क्ते वासयति भिक्षा / अत्र निमित्तभावेन / राजानमागच्छन्तं प्रयुङ्क्ते राजानमागमयति, मृगान् रमयति, रात्रि विवासयति कथकः। अत्राख्यानेन / आख्यानेन हि बुद्धयारूढा राजादयः प्रयुक्ताः प्रतीयन्ते / कंसं घ्नन्तं प्रयु ङ्क्ते कसं घातयति, बलिं बन्धयति नटः / अत्राभिनयेन / पुष्येण युञ्जन्तं प्रयुङ्क्ते पुष्येण योजयति चन्द्रम् , मघाभियोजयति गणकः। अत्र कालज्ञानेन / उज्जयिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गच्छन्तं प्रयुङ्क्ते माहिष्मत्यां सूर्यमुद्गमयति / रैवतकात् मस्थितः शत्रुञ्जये सूर्य पातयति / अत्र प्राप्त्या / ननु कर्तापि करणादीनां प्रयोजक इति तद्यापारेऽपि णिग् पामोति / नैवम् / प्रयोक्तग्रहणसामर्थ्यात् / तथा क्रियां कुर्वमेव कर्ताऽभिधीयते / तेन तूष्णीमासीने प्रयोज्ये मा पृच्छतु भवान् अनुयुक्तां मा भवानित्यत्र णिग् न भवति / पञ्चम्या बाधितत्वाद्वा / वाधिकार आबहुलवचनात् पक्षे वाक्यार्थः। भवन्तं प्रायुक्त इति वाक्ये भावि द् इति स्थिते णिश्रीति जे उपान्त्यस्येति इस्वे ततो गेलुंकि असमानलोप इत्यादिना सन्वद्भावे 'ओर्जान्तस्थापवर्गेऽवणे ' अबीभवत् / अजीजवत् / अयीयवत् / अरीरवत् / अलीलवत् / अपीपवत् / अमीमवत् / 384 श्रुटुगुप्लुच्योर्वा // 4 / 1 / 61 // एषां सनि परे द्वित्वे सति पूर्वस्योकारान्तस्यान्तस्थायामवर्णान्तायां परत इकारोऽन्तादेशो वा स्यात् / अशिश्रवत / अशुश्रवत् / असिस्रवत् / असुस्रवत् / अदिद्रवत् / अदुद्रवत् / अपिप्रवत् / अपुप्रवत् / अपिप्लवत्। अपुप्लवत् / अचिच्यवत् / अचुच्यवत् / वचनादेकेनावणेनान्तस्थाया व्यवधानमाश्रीयते / अवर्ण इत्येव / शुश्रूषते / ओरित्येव / सोस्रविषति / अशशासत् / अडुढोकत् / अचचकासत् / मतान्तरे अचीचकासत् / ऋदिद्वर्जनाद् इस्वनिषेधे राजयति / अरराजत् / णिजन्ताण्णिम् / णिलोपे चोरयति / अचूचुरत् / 'घटा