________________ 586 सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे पयोगे // 404 // असर्वोपयोगोऽनुपयुक्तलम् / शेषयति / शेषति / विपूर्वोऽतिशये // 40 // अतिशय उत्कर्षः। विशेषयति / विशेषति / व्यशेषीत् / जुपण परितकणे // 406 / / परितर्पण इत्येके / जोषयति / जोषति / धृषण प्रसहने // 407 // प्रसहनमभिभवः / धर्षयति / धर्षति / अदीधृषत् / अदधर्षत् / अधर्षीत् / आदिदयमित्येके / हिसुण हिंसायाम् / / 408 // हिंसयति / हिंसति / गर्हण विनिन्दने // 409 / / षहण मर्षणे // 410 // साहयति / सहति। असीपहत् / असहीत् / बहुलमेतनिदर्शनम् / यदेतद्भवत्यादिधातुपरिगगनं तद् बाहुल्येन निदर्शनत्वेन ज्ञेयम् / तेनात्रापठिता अपि क्लविप्रभृतयो लौकिकाः स्तम्भवादयः सौत्रा चुलुम्पादयश्च वाक्यकरणीया धातव उदाहा-ः। विक्लवन्ते दिवि ग्रहाः। विच्छायीभवन्तीत्यर्थः / उपक्षपयति प्राट् / आसन्नीभवतीत्यर्थः / उत्तभ्नाति / " निपानं दोलयन्नेष प्रेकोलयति मे मनः / पवनो वीजयन्नाशा ममाशामुच्चुलुम्पति " // 'तावत्खरः प्रखरमुल्ललयाञ्चकार' यद्वा भ्वादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवन्ति / चुरादिपाठस्तु निदर्शनार्थः / यदाहुः-" निवृत्तप्रेषणाद्धातोः प्राकृतेऽर्थे णिजिष्यते " / रामो राज्यमचीकरत् / अकार्षीदित्यर्थः। प्रयोज्यव्यापारेऽपि प्रयोक्तृव्यापारानुप्रवेशो णिगं विनापि वृद्धयारोपाद् बहुलं भवति / जजान गर्भ मघवा / इन्द्रोऽजीजनदित्यर्थः। अथवा णिज्बहुलमित्येव सिद्धे सूत्रमूत्रच्छिद्रान्धादय उदाहरणार्थाः। तेनादन्तेष्वनुक्ता अपि बहुलं द्रष्टव्याः। वृत् युजादयः परस्मैपदिनः। // इति णित चुरादयः // // अथ ण्यन्तप्रक्रिया // 382 भूङः प्राप्तौ णिङ् // 3 / 4 / 19 / / भुवो धातोः प्राप्तावर्थे वर्तमानात् णिङ् प्रत्ययो वा स्यात् / भावयते / भवते / प्रामोतीत्यर्थः। भवतीत्येवान्यत्र / णिङिति डकारः आत्मनेपदार्थः। भूङ इति डकारनिर्देशो णिङभावेऽप्यात्मनेपदार्थः। प्राप्त्यभावेऽपि कचिदात्मनेपदमिष्यते / " याचितारश्च नः सन्तु दातारश्च भवामहे / आक्रोष्टारश्चनः सन्तु क्षन्तारश्च भवामहे"। इति /