SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ 578 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे शेषादिति परस्मैपदम् / लक्षयते / लक्षयति / इतोऽर्थविशेषे आलक्षिणः। इतः परं लक्षिणपर्यन्ता अर्थविशेषे चुरादयः कथ्यन्ते / ज्ञाण मारणादिनियोजनेषु // 2 // _371 मारणतोषणनिशाने ज्ञश्च / / 4 / 2 / 30 // एष्वर्थेषु वर्तमानस्य जानातेणिचि अणिचि च णौ इस्वः स्यात् अिणम्परे तु वा दीर्घः। चकारो णिचि चेत्यस्यानुकर्षणार्थः / इह पूर्वत्र च सूत्रे णिचि अणिचि च णौ रूपसाम्येऽप्यर्थभेदः। एकत्र स्वार्थोऽन्यत्र प्रयोक्तृव्यापारः। अन्ये तु निशान इत्यस्य स्थाने निशामन इति पठन्ति / निशामनमालोचनं मणिधानमाहुः / __ 372 अतिरीब्लीहीक्नूयीक्ष्माययातां पुः // 4 / 2 / 21 // एषामाकारान्तानां च धातूनां णौ परे पुरन्तः स्यात् / अर्तीति कं गतौ कं प्रापणे चेत्यनयोग्रहणं सामान्यनिर्देशात् / तिनिर्देशो यङ्लुप्निवृत्त्यर्थः। रीति रीयतिरिणात्योहणम् / बहुवचनं व्याप्त्यर्थम् , तेन नाम्नोऽपि / मारणे-संज्ञपयति पशून् / तोषणे-ज्ञपयति गुरून् / निशाने-ज्ञपयति शरान् / अन्यत्र आज्ञापयति भृत्यम् / च्युण सहने // 149 // च्यावयति / सहव इत्यर्थः। भूण अवकल्कने // 150 // अवकल्कनं मिश्रीकरणम् / भावयति दध्नौदनम् / विकल्कन इति नन्दी / अवकल्पन इत्यन्ये / 373 ओर्जान्तःस्थापवर्गेऽवणे // 4 / 1 / 60 // धातोदित्वे सति पूर्वस्योकारान्तस्यावर्णान्ते जान्तस्थापवर्गे परतः सनि परे इकारोऽन्तादेशः स्यात् / अबीभवत् / ओरिति किम् / पापचिषते / जान्तस्थापवर्ग इति किम् / अवतुतावयिषति / अवर्ण इति किम् / बुभूषति / सनीत्येव / लुलाव / ननु ण्यन्तानां वृद्धयवादेशयोः कृतयोद्वित्वे सति पूर्वस्योकारान्तता न संभवति, तत्र सन्यस्येत्यनेनैव सिद्धे किं गुरुणा सूत्रेण, एतावत्त विधेयम् 'ओः पयेऽवणे' इति। पिपविषति, यियविषतीत्यत्र पूर्वस्योकारान्तस्येत्वं यथा स्यात् / सत्यं, णौ यत्कृतं कार्य तत्सर्व स्थानिवद् भवतीति न्यायज्ञापनार्थ वचनम् / तेन पुस्फारयिषति चुक्षावयिषति शुशावयिषतीत्यायपि सिद्धम्। एतच्च ज्ञापकं जान्तस्थापवर्गवत् अन्यत्राप्यवर्ण एव द्रष्टव्यम् / तेनाचिकीर्तदित्यत्रेकारवतो द्विर्वचनं सिद्धम् / बुक्कण भाषणे // 181 // भषण इत्यन्ये / बुक्कयति श्वा चौरान् / रक लक रग लगण आस्वादने // 185 // आद्यावासादन इत्यन्ये / रागयति / लागयति / णिगि घटादिखाद इस्वे रगयति / लगयति / लिगुण चित्रीकरणे // 156 लिङ्गयति / चर्चण अध्ययने // 157 // अश्चण विशेषणे
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy