SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ क्यादयः] सिद्धहेमवृहमक्रिया. 571 तुरीयो धारणार्थ इत्येके / एतेषामूदित्करणं क्वाक्तयोरिड्विकल्पनित्यप्रतिषेधौ यथा स्याताम् / ____355 अङप्रतिस्तब्धनिस्तब्धे स्तम्भः // 2 // 3 // 41 // उपसर्गस्थान्नाम्यन्तस्थाकवर्गात् परस्य स्तम्भसकारस्य द्वित्वेऽपि अध्यपि षः स्यात् न चेदसौ स्तम्भिर्डे प्रतिस्तब्धे निस्तब्धे च विषये स्यात् / विष्टभ्नाति / मतिष्टभ्नाति / वितष्टम्भ / पतितष्टभ्भ। व्यष्टभ्नात् / प्रत्यष्टभ्नात् / व्यष्टम्भीत् / अङपतिस्तब्धनिस्तब्ध इति किम् / व्यतस्तम्भत् / प्रत्यतस्तम्भत् / प्रतिस्तब्धः / निस्तब्धः 356 अवाचाश्रयोर्जाविदूरे // 2 // 3 // 42 // अवादुपसर्गात् परस्य स्तम्भः सकारस्याश्रयादिष्वर्थेषु गम्यमानेषु द्वित्वेऽपि अव्यपि षः स्यात् अ.-ङविषयश्चेत् स्तम्भिनं भवेत् / आश्रय आलम्बनम् / दुर्गमवष्टभ्यास्ते / अवतष्टभ्भ दुर्गम् / दुर्गमवाष्टभ्नात् / ऊर्ज ऊर्जिवम् / अहो वृषलस्यावष्टम्भः। अवष्टब्धो रिपुः शूरेण / अविदूरमनतिविप्रकृष्टम् आसन्नमदूरासनं च गृह्यते / अवष्टब्धा शरत् / अवष्टब्धे सेने / अवादिति किम् / प्रस्तब्धः / चकारोऽङ इत्यस्यानुवृत्यर्थः अनुक्तसमुच्चयार्थश्च / तेनोपष्टम्भ उपष्टम्भक उपष्टब्ध इत्यादावुपादपि भवति / उपावादित्यकृत्वा चकारेण सूचनम् अनित्यार्थ तेनोपस्तब्ध इत्यपि भवति। आश्रयादिग्विति किम्। अवस्तब्धो वृषलः शीतेन / अङ इत्येव / अवातस्तम्भत् / स्कभ्नाति / 357 स्कन्नः // 2 // 3 // 55 // वेः परस्य स्कभ्नातेः सकारस्य नित्यं षः स्यात् / योगविभागाद्वेति निवृत्तम् / अन्यथा हि वेः स्कभ्नश्चेति क्रियेत। विष्कम्नाति / विष्कम्भिता / विष्कम्भकः। विष्कम्भयति / नानिर्देशः किम् / सश्नोर्मा भूत् / विस्कभ्नोति / स्कम्भुः सौत्रो धातुः अषोपदेशः। 358 व्यञ्जनाच्छ्नाहेरानः // 3 / 4 / 80 // व्यञ्जनान्ताद्धातोः परस्य नायुक्तस्य हेः स्थाने आन आदेशः स्यात् / स्तभान / स्तुभान / विष्कमाण / स्कुभान / उत्तभान। व्यञ्जनादिति किम् / लुनीहि / नाहेरिति किम् / अनाति / उत्तभ्नुहि / कन्गश् शब्दे // 12 // क्नूनाति / क्न्नीते / दूगश् हिंसायाम् // 13 // गतावित्यन्ये / ग्रहीश् उपादाने // 14 // ग्रहश्चेति यत् / गृह्णाति। गृणीते / गृह्णातु / मृहाण / गृहीताम् / 359 गृहोऽपराक्षायां दीर्घः // 44 // 34 // गृहातेर्यो विहित इट् तस्य दीर्घः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy