________________ तुदादयः] सिद्धहैमबृहत्पक्रिया. 561 पश्चानां यङ्लुबन्तानां नेच्छन्त्यन्ये / अन्ये तु 'प्रकृतिग्रहणे यङ्ग्लुबन्तस्यापि ग्रहणम्' इति यङ्लुप्यपि मन्यन्ते / अपरे तु विचतिवृश्चतिभृज्जतिपृच्छतीनां नित्यं यत् ज्यादीनां त्वनित्यमिति मन्यन्ते तेनेदं सिद्धम् ' तस्यास्त्रयस्त्रीनपि विव्यधुः शरैः' इति। अन्ये तु विविधुरित्येवाहुः। ___332 भृजो भर्ज // 446 // भृजतेरशिति प्रत्यये भज् इत्ययमादेशो वा स्यात् / लुप्ततिन्निर्देशो यङ्लनिवृत्यर्थः / अभासीत् / पक्षे संयोगस्यादाविति सलुकि अभ्राक्षीत् / अभष्टै / अभ्रष्ट / बभजे / बभर्जतुः। बभर्जुः / बभ्रज / बभ्रज्जतुः / बभ्रज्जुः। बभर्जिथ / बभष्ठे / वभ्रजिथ / बभ्रष्ठ / भृज्यात् / अत्र परत्वाद भर्जादेशेऽपि स्थानिवद्भावेन पूर्वेण वरेण सह यकृत / भीष्ठ / भ्रक्षीष्ट / भी / भ्रष्टा / भयति / भ्रक्ष्यति / भयते / भ्रक्ष्यते / लिपीत् प्रेरणे // 3 // शिपति / क्षिपते / अझैप्सीत् / अक्षिप्त / चिक्षेप / चिक्षिपे / क्षेप्ता / क्षेप्स्यति / क्षेप्स्यते / दिशोंत् अतिसर्जने // 4 // दाने इत्यर्थः। दिशति / दिशते / अदिक्षत् / / अदिक्षत / दिश्यात् / दिक्षीष्ट / कृषीत् विलेखने // 5 // कृषति / कृषते / स्पृशमशेति वा सिवि स्पृशादिसपो वेत्यदागमे अक्राक्षीत् / अकार्षीत् / अकृक्षत् / अकृष्ट। अकृक्षत / चकर्ष / चकृषे / कृष्यात् / कृक्षीष्ट / क्रष्टा / का / क्रक्ष्यति / कक्ष्यति / क्रक्ष्यते / कय॑ते / मृच्छंती मोक्षणे // 6 // 333 मुचादितृफटफगुफशुभोभः शे॥४।४।१००॥ एषां स्वरान्नोऽन्तः स्यात् शे परे / तृफादयः सनकारा अनकाराश्च तुदादिषु पठ्यन्ते / तत्र तृम्फादीनां शे नस्य लुक् इति तृफादीनां नविधानम् / विधानसामर्थ्यात्वस्य लोपो न भवतीति तृफति तृम्फतीत्यादि द्वैरूप्यं सिद्धम् / मुञ्चति / मुञ्चते। लूदित्त्वादमुचत् / अमुक्त / मोक्ता / मोक्ष्यति / मोक्ष्यते। पिचीत् क्षरणे // 7 // सिञ्चति / सिञ्चते / हालिपसिजित्यङि असिचव / वात्मने / असिचत / असिक्त / अभ्यषिचत् / अभिषिषेच। विलंती लाभे // 8 // विन्दति। विन्दते। अविदत् / अवित्त। लुप्लंती छेदने॥९॥ लुम्पति / लुम्पते। अलुपत् / अलुप्त / लिपीत् उपदेहे // 10 // लिम्पति / लिम्पते / अलिपत् / अलिपत / अलिप्त / // इत्युभयपदिनः //