________________ अदादयः] - सिद्धहैमबृहत्पक्रिया. 541 कित्वाद् गुणो न / विदाञ्चकार / विदांबभूव / विदामास / पक्षे विवेद / वेत्तेरविदिति कृते इन्ध्यसंयोगात् परोक्षाकिद्वदित्यामः स्थानिवद्भावेन कित्त्वे सिद्धेऽपि कित्त्वविधानमामः परोक्षावद्भावनिवृत्तिज्ञापनार्थम् / तेन परोक्षावद्भावेन हि कित्त्वद्विवचनादिकं न भवति / तिनिर्देश आदादिकपरिग्रहार्थः / विद्यात् / विद्यास्ताम् / वेदिता / वेदिष्यति / अवेदिष्यत्। हनं हिंसागत्योः // 42 / / हन्ति। पणिहन्ति / - 256 यमिरमिनमिगमिहनिमनिवनतितनादेर्युटि क्ङिति / / 3 / 2 / 55 // यमिरमिनमिगमिहनिमनीनां वनतेस्तनादीनां च धुडादौ क्ङिति प्रत्यये परेऽन्तस्य लुक् स्यात् / हतः / एषामिति किम् / शान्तः / दान्तः / तिवगणनिर्देशाद् यङलुपि न / गमहनेत्युपान्त्यलुकि, हनो हो न इति नादेशे च नन्ति ! हंसि / हथः। हथ / हन्मि / हन्वः। हन्मः। - 257 वमि वा // 2 / 3 / 83 // अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात्परस्य हन्तेर्नकारस्य वकारे मकारे च परे णो वा स्यात् / प्रहण्वः। प्रहन्वः। प्रहभः / महन्मः / प्रहण्मि / प्रहन्मि / अन्तहण्वः। अन्तहेन्वः। अन्तहेण्मः। अन्तर्हेन्मः। 258 हनः // 2 / 3 / 82 // अदुरुपसर्गान्तःशब्दस्थाद्रवर्णात् परस्य हन्तेनकारस्य णः स्यात् / प्रहण्यात् / प्रघ्नन्तीत्यादौ हनो घीति प्रतिषेधान्न भवति / हन्तु / हतात् / जहि / हतात् / अहन् / अहताम् / अनन् / 259 अद्यतन्यां वा त्वात्मने // 4 / 4 / 22 / / अद्यतन्यां विषये हनो वध इत्ययमादेशः स्यात् आत्मनेपदे त्वस्या वा भवति / इट ईतीति सिज्लोपे ' अतः' इत्यकारलुकि च अवधोत् / अलोपस्य स्थानिवद्भावेन ' व्यञ्जनादेोपान्त्यस्यातः" इति वृद्धिर्न / 260 भिणवि घन् // 4 / 3 / 101 // au णवि च प्रत्यये परे हन्तेर्घन् इत्ययमादेशः स्यात् / घातोऽपवादः / जघान / द्वित्वे गमहनेत्युपान्त्यलुकि-- - 261 अङे हिहनो हो घः पूर्वात् // 4 / 1 / 34 / / हि हन् इत्येतयोर्धात्वोर्डवर्जिते प्रत्यये परे द्वित्वे सति पूर्वस्मात् परस्य हस्य घः स्यात् / अङे द्विवचननिमित्तप्रत्ययेऽनन्तरस्य विज्ञानादिह न भवति / हननीयितुमिच्छति जिहननीयिषति।