________________ __ सिद्धहैमबृहत्पक्रिया. [आख्यातप्रकरणे शिष्टम् / शिष्ट / अशात् / अशिष्टाम् / अशाः। अशात् / ' शास्त्यमूवक्ती " त्यङ् / अशिषत् / शशास / शशासतुः / शिष्यात् / शासिता / शासिष्यति / वचं भाषणे // 38 // वक्ति / वक्तः / वचन्ति / वच्यात्। वक्तु / वग्धि / अवक् / शास्त्यमूवक्तीत्यङ् / 'श्वयत्यम्' इति वोचादेशे / अवोचत् / द्वित्वे यति उवाच / यजादिव चेरिति यति ऊचतुः। ऊचुः / अवचिथ / उवक्थ / उच्यात् / वक्ता / वक्ष्यति / मृजौक् शुद्धौ // 39 // लघूपान्त्यस्येति गुणे सति / 251 मृजोऽस्य वृद्धिः॥४।३।४२॥ मृजेर्गुणे सति अकारस्य वृद्धिः स्यात् / यजसजेति षत्वे / माष्टि। मृष्टः।। .. 252 ऋतः स्वरे वा // 4 // 3 // 43 // मृजेक्रंकारस्य स्वरादौ प्रत्यये परे वा वृद्धिः स्यात् / मार्जन्ति / मृजन्ति / माक्षि / मृष्ठः। मृज्यात् / माष्टुं / मृष्टात् / मृष्टाम् / मार्जन्तु / मृजन्तु / मृड्ढि / मृष्टात् / अमार्ट-ड् / अमृष्टाम् / अमार्जन् / अमृजन् / अमा-ड् / औदित्वादिविकल्पे / अमाजीत् / अमाक्षीत् / ममार्ज। ममार्जतुः। ममृजतुः / ममार्जुः / ममजुः। मृज्यात् / मार्जिता / मार्टा / मार्जिष्यति / मायति / सस्तुक् स्वप्ने // 40 // उदित्वान्ने 'धुटो धुटी' ति तकारलुकि संस्ति / असंस्तीत् / विदक् ज्ञाने // 41 // वेत्ति / वित्तः / विदन्ति / .. 253 तिवां गवः परस्मै // 4 / 2 / 117 // वेत्तेः परेषां परस्मैपदसंबंधिनां तिवादीनां नवानां प्रत्ययानां स्थाने परस्मैपदसंबन्धिन एव णवादयो नवादेशा यथासंख्यं वा स्युः / वेद / विदतुः / विदुः / वेत्थ / विदथुः / विद / वेद विद्व / विद्म / विद्यात् / .. 254 पञ्चम्याः कृग् // 3 / 4 / 52 // वेत्तेः परस्याः पञ्चम्याः स्थाने किदामादेशो वा स्यात् आमन्ताच्च परः पञ्जम्यन्तः कृगनुपयुज्यते / कृग्ग्रहणं भ्वस्तिव्युदासार्थम् / विदाङ्करोतु / विदाङ्कुरुतात् / विदाकुर्वन्तु / विदाङ्कुरु / विदाङ्करवाणि / पक्षे वेत्तु / वित्तात् / वित्ताम् / विदन्तु / विद्धि / वेदानि / अवेत्-द। अवित्ताम् / अविदुः / अवेः / अवेत्-द् / अवेदीत् / अवेदिष्टाम् / अवेदिषुः / 255 वेत्तेः कित् // 3 / 4 / 51 // विदक् ज्ञाने इत्यतो धातोः परस्याः परोक्षायाः स्थाने आमादेशो वा स्यात् स च कित् आमन्ताच्च कृभ्वस्तयोऽनुप्रयुज्यन्ते /