________________ 538 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे 241 नश्चातः // 4 / 2 / 96 // न्युक्तजक्षपञ्चतः नाप्रत्ययस्य च संबंधिनः शित्यविति प्रत्यये परे आकारस्य लुक् स्यात् / दरिद्रति / दरिद्रियात् / अदरिद्रात् / अदरिद्रुः / 242 दरिद्रोऽद्यतन्यां वा // 4 / 3 / 76 // दरिद्रातेरद्यतन्यां विषयेऽन्तस्य वा लुक् स्यात् / अदरिद्रीत् / अदरिद्रिष्टाम् / पक्षे अदरिद्रासीत् / अदरिद्रासिष्टाम् / अदरिद्रासिषुः / दरिद्राञ्चकार / 243 अशित्यस्सन्णकज्णकानटि // 4 / 377 // सकारादिसन्णकच्णकानड्वजितेऽशिति प्रत्यये विषयभूते दरिद्रातेरन्तस्य लुक् स्यात् / १ददरिद्रौ / ददरिद्रतुः / दरिद्रयात् / दरिद्रिता / दरिद्रिष्यति / विषयसप्तमीविज्ञानात् पूर्वमेवाकारलोपे दरिद्रातीति दरिद्रः / अजेव भवति नखाकारान्तलक्षणो णः। तथा दुर्दरिद्रमित्याकारान्तलक्षणोऽनो न भवति / दरिद्राणम् / दरिद्र इति च घत्रि 'आत' इति ऐन भवति। अशितीति किम् / दरिद्राति / सन्नादिवर्जनं किम् / दिदरिद्रासति / क्रियायां क्रियार्थायां णकचि दरिद्रायको व्रजति / 'पर्यायार्हण' इत्यादीना णके दरिद्रायको वर्तते / णकतृचौ इति च णके दरिद्रायकः। अनटि दरिद्राणम् / सनः सादिविशेषणं किम् / दिदरिद्रिषति / अक इत्येव वक्तव्ये णकच्णकयोरुपादानं किम् / आशिष्यकनि मा भूत् / दरिद्रकः। केचिदरिद्रातेरनिटि कसावालोपं नेच्छन्ति / तन्मते इट् आम् चाभिधानान भवतः। दिदरिद्रावान् / जागृक् निद्राक्षये // 35 // जागर्ति / जागृयात् / जागर्नु / नामिनो गुण इति गुणे / 244 व्यञ्जनाः सश्च दः॥४॥३७८ // धातोयंञ्जनान्तात्परस्य देलुक यथासंभवं धातुसकारस्य च दकारः। अजागः। व्यञ्जनादिति किम् / अयात् / धातोरित्येव / अभैत्सीत् / इतः परादित्वात् सेतोऽपि प्राप्नोति / अजागृताम् / 345 पुस्पौ // 4 // 3 // 3 // नाम्यन्तस्य धातोः पुसि पौ च परे गुणः स्यात् / अजागरुः। 1 ' आतो णव औः' इत्यत्र ओकारेणैव सिद्धे औकार करणं एतदर्थमेव / अन्यथा ' अशित्यस्सन् ' इत्याल्लोपे इदं न सिद्धयेत् / नन्वत्रामादेशेन भाव्यम् , तत्कथमेतदर्थम् / सत्यम् / अतएव औकारकरणादामादेशस्यानित्यत्वम् /