________________ अदादयः] .. ...सिद्धहैमबृहत्पक्रिया. 236 स्वपेर्यड्डे च ! / 4 / 1180 // स्वपेर्यङि ङे किति च प्रत्यये सस्वरान्तस्था यत् स्यात् / डे परे स्वपितिय॑न्तो लभ्यते / सुषुपतुः। सुषुषुः / सुष्वपिथ / सुष्वप्थ / सुप्यात् / स्वप्ता / स्वप्स्यति / अस्वप्स्यत् / - 237 अवः स्वपः॥२॥३॥८६॥ निर्दुःसुविपूर्वस्य वकाररहितस्य स्वपेर्धातोः सकारस्य षः स्यात् / नि षुषुपतुः। दुःषुषुपतुः। सुषुषुपतुः। विषुषुपतुः। अव इति किम् / निःस्वमः / दुःस्वमः / सुस्वमः / विसुष्वाप / अन श्वसक् प्राणने // 32 // . 238 द्वित्वेऽप्यन्तेऽप्यनितेः परेस्तु वा // 2 // 3 // 81 // अदुरुपसर्गान्त:शब्दस्थाद्रपुवर्णात्परस्यानितेर्नकारस्य द्वित्वें चाद्वित्वे चान्ते चानन्ते वर्तमानस्य णः स्यात् परिपूर्वकस्य तु वा ! प्राणिति / प्राण्यात् / पाणितु। प्राणीत् / प्राणत् / प्राणीत् / प्राणिष्टाम् / प्राण / प्राणतुः। पाण्यात् / प्राणिता / प्राणिष्यति / पर्यणिति / पर्यनिति। परिपूर्वकस्य द्वित्वे अन्ते च नित्यं णत्वमिच्छन्त्येके / अन्ये तु अन्तेऽनन्ते च नेच्छन्त्येव / ये तु द्वित्वे कृतेऽपि पुनर्द्वित्वमिच्छन्ति तन्मतेऽपि द्वित्वे इति वचनात् द्वयोरेवाद्ययोर्णत्वं भवति न तृतीयस्य / प्राणिणिषयते. प्राणिणिनिषत् / अनन्त्यस्येत्यकारात अन्ते न पामोतीति अन्तवचनम् / अनितीति तिवा निर्देशो दैवादिकनिवृत्त्यर्थः न यङ्ग्लनिवृत्त्यर्थः, यङोऽसंभवात् / श्वसिति / अद्यतन्यां व्यञ्जनादेोपान्त्यस्येति वा वृद्धौ अश्वासीत् / अश्वसीत् / 'न विजागृ' इति सूत्रे शसः स्थाने श्वसं पठन्त्यन्ये तन्मते अश्वसीत् / शश्वास / शश्वसतुः। जक्षक भक्षहसनयोः // 33 // जक्षिति / जक्षितः / अन्तो नो लुगिति नकारलुकि जक्षति / अजक्षीत् / अनक्षत् / अजक्षिताम् / . 239 उद्युक्तजक्षपञ्चतः॥४।२।९३॥ द्वे उक्ते यस्य स व्युक्तः। पञ्चानां वर्गः पञ्चत् / जक्षाणां पञ्चत् जक्षपञ्चत् / व्युक्ताद्धातोर्जक्षपश्चतश्च परस्य शितोऽवितोऽनः स्थाने पुसादेशः स्यात् / अजक्षुः / अजक्षीत् / अजशिष्टाम् / जजक्ष / दरिद्राक् दुर्गतौ // 34 // दरिद्राति / ... 240 इर्दरिद्रः // 4 / 2 / 98 // दरिद्रातेwञ्जनादौ शित्यविति प्रत्यये परे आकारस्येकारः स्यात् / दरिद्रितः।