SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्मक्रिया. [स्वरान्तपुंल्लिङ्ग " ओस्यौकारे च नित्यं स्यादम्शसोस्तु विभाषया / इयादेशोऽचि नान्यत्र स्त्रियाः पुंस्युपसर्जने " // 224 ऋदुशनस्पुरुदंसोऽनेहसश्च सेर्डा // 1 / 4 / 84 // ऋकारान्तादुशनस्पुरुदंशसनेहस् इत्येतेभ्यः सख्युरितश्च परस्य शेषस्य सेः स्थाने डा इत्ययमादेशः स्यात् / सखा / सख्युरित इत्येव / इयं सखी। शेषस्येत्येव, हे सखे / 225 सख्युरितो शावैत् // 14 / 83 // सखिशब्दस्येकारान्तस्य तत्संबंधिन्यन्यसंबंधिनि वा शिवजिते शेषे घुटि परे ऐकारान्तादेशः स्यात् / सखायौ / सखायः / सखायम् / सखायौ / सखीन् / शेष इत्येव / हे सखे / इत इति किम् / इमे सख्यौ / इदमेवेद्ग्रहणं ज्ञापयति ' नामग्रहणे लिङ्गविशिष्टस्यापि ग्रहणम्' 'एकदेशविकृतमनन्यवद् ' इति च / ___ 226 न ना ङिदेत् // 1 / 4 / 27 // केवलसखिपतेः परस्य टावचनस्य नादेशो डिति परे एकारश्च य उक्तः स न स्यात् / सख्या / सख्ये / केवलादित्येव / प्रियसखिना / प्रियसखये / पञ्चमीषष्ठयेकवचनयोरेत्वनिषेधादिवर्णादेरिति यत्वे 227 खितिखीतीय उर् // 114 / 36 // खितिखीतीसंबंधिन इवर्णस्थानाधकारात् परयोङसिङसो स्थाने उर् आदेशः स्यात् / सख्युः 2 / य इति किम् / यत्र यत्वादेशस्तत्र यथा स्यात्, इह मा भूत् , अतिसखेः। खितिखीतीति किम् / मुख्यमपत्यं चाचष्टे णिच् , विच् / मुख्यः, अपत्यः / अदिति इत्येव / सख्याः। ____ 228 केवलसखिपतेरौ // 1 / 4 / 26 // केवलसखिपतिभ्यामिदन्ताभ्यां परो ङिरौः स्यात् / सख्यौ / शेषं मुनिवत् / इत इत्येव / सखायमिच्छति क्यनि दीर्घत्वे, सखीयतीति किपि, यलोपे सखी:-सख्यि / केवलग्रहणं किम् / प्रियसखौ / पतिशब्दः केवलः प्रथमाद्वितीययोर्मुनिवत् / तृतीयादौ च सखिवत् / पत्या / पत्ये / पत्युः 2 / पत्यौ। समस्तश्च सर्वत्र मुनिवत् / मुनिपतिना। कतिशब्दो नित्यं बहुवचनान्तः 239 डत्यतु संख्यावत् // 11 // 39 // इतिप्रत्ययान्तमतुप्रत्ययान्तं च नाम संख्यावद् भवति / एकव्यादिका लोकप्रसिद्धा संख्या, तत्काथ भजत इत्यर्थः। 230 डतिष्णः संख्याया लुप् // 1 / 4 / 54 // इतिषकारनकारान्तायाः
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy