________________ अदादयः ] सिद्धहैमबृहत्पक्रिया. 530 नित्यत्रेयि सत्युत्तरेणैव ( स्वरादेरित्यनेनैव ) वृद्धिर्भवति / अध्येत् / अध्येताम् / अध्यायन् / अध्यैयन् / अध्यैः। अध्यैतम्। अध्यैत / अध्यायम् / अध्यैव / अध्यैम / पिबैतिदेति सिज्लुपि 228 इणिकोर्गाः // 4 / 4 / 23 // अद्यतन्यां विषये इण इकश्च धातोर्गा इत्ययमादेशः स्यात् / अध्यगात / अध्यगाताम् / अध्यगुः / अधीयाय / अधीयतः। अधीयुः / अधीययिथ / अधीयेथ। अधीयथुः / अधीय / अधीयाय / अधीयय / अधीयिव / अधीयिम / अधीयात / अध्येता / अध्येष्यति / इंण्क् गतौ // 17 // एति / इतः। 229 हिणोरप्विति व्यौ // 4 // 3 // 15 // हु इण इत्येतयो मिनः स्वरादा. वपित्यविति च शिति परे यथासंख्यं वकारयकारादेशावियुवोरपवादौ स्याताम् / यन्ति / स्वरादावित्येव / इथः। अप्वितीति किम् / अजुहवुः / अयानि / ऐत् / ऐताम् / आयनित्यत्र तु एत्यस्तेदृद्धिरिति वृद्धिरेवापवादत्वात् / अगात्। अगाताम् / अगुः / इयाय / 230 इणः / / 2 / 1151 // इणो धातोः स्वरादौ प्रत्यये परे इय् इत्ययमादेशः स्यात् / यत्वापवादः / ईयतुः / ईयुः। कथं यन्ति यन्तु ? परत्वेन ‘विणोरविति' इति यत्वस्यैव भावात् / अयनम् आयक इत्यत्रापि परत्वाद् गुणवृद्धी एव / आशिषि ईयात् / 231 आशिषीणः // 4 / 3 / 107 // उपसर्गात्परस्येण ईकारस्य डिवि यकारादाशिषि परतो इस्वः स्यात् / उदियात् / समियात् / आशिषीति किम् / उदीयते / उपसर्गादित्येव / ई इण इति ईकारप लेषात् आ इयात् एयात् समेयादित्यत्र न भवति / ननु प्रतीयादित्यत्र समानलक्षणे दीर्घ सति कथं न इस्वः? न / दीर्घे सति उपसर्गात् परस्य इणोऽभावात् / केचित् अत्रापीच्छन्ति / प्रतियात् / इकोऽपि समानदीर्घत्वे इच्छन्त्येके / अधियात् / वीक् प्रजनकान्त्यसनखादनेषु // 18 // वेति / वीतः। वियन्ति / वीयात् / वेतु / अवेत् / अवैषीत् / अवैष्टाम् / विवाय / विव्यतुः / वीयात् / वेता / वेष्यति / अत्र ईक् इति धात्वन्तरमलेषः / एति / इतः / इयन्ति / ऐषोत् / युंक् अभिगमने // 19 // * योऽनेकस्वरस्येति प्राप्तस्य /