SearchBrowseAboutContactDonate
Page Preview
Page 546
Loading...
Download File
Download File
Page Text
________________ 533 अदादयः] सिद्धहैमबृहत्मक्रिया. // 57 // ज्वल दीप्तौ / / 48 // ज्वलति / ज्वलयति / इति घटादयः। भ्वादिराकृतिगणः। तेन चुलुम्पतीत्यादिसंग्रहः / // इति निरनुबन्धा भ्वादयः // // अथादादयः॥ अदं प्सांक् भक्षणे // 2 // कर्तर्घनद्भय इत्यदादिवर्जनान्न शव् / अत्ति / अत्तः। अदन्ति / अत्सि / अत्थः / अत्थ / अनि / अद्वः / अमः। अद्यात् / अद्याताम् / अद्युः / अत्तु / अत्तात् / 220 हुधुटो हेधिः // 4 / 2 / 83 // जुहोतेधुंडन्ताच धातोः परस्य हेधिरादेशः स्यात् / अद्धि / हुधुड्भ्यां परत्वेन हेविशेषणादिह न भवति / रुदिहि / हेरिति किम् / अत्तु / जुहुतात्त्वमित्यादौ नित्यखात् प्रकृत्यनपेक्षणेनान्तरङ्गलाच तातङ् / तस्य च न पुनधिभावो हेरिति शब्दाश्रयणात् / केचित्तु 'हिंसेहेरत' हिंस, 'भुजिभञ्जिभ्यां तु वा ' भुञ्ज-मुग्धि, भञ्ज-भग्धि इतीच्छन्ति / नैतद् वैयाकरणरूपसंमतम् / हिन्धि इत्याद्येव तु भवति / अदानि / अदाव / अदाम / 221 अदश्चाट् // 4 / 4 / 90 // अत्ते रुत्पञ्चकात् च परयोर्दिस्योः शितोरादिरट् स्यात् / आदत् / आदः / दिस्योरित्येव / अत्ति / अत्सि / 222 घस्ल सनद्यतनीघचलि // 4 / 4 / 17 // एषु प्रत्ययेष्वदेर्घस्ल इत्ययमादेशः स्यात् / घस्ल अदने इत्यनेनैव सिद्धेऽदेः सन्नादिषु रूपान्तरनिवृत्त्यर्थ वचनम् / लुदर्थः / अघसत् / 223 परोक्षायां न वा // 4 / 4 / 18 // परोक्षायां परतोऽदेर्घस्लादेशो वा स्यात् // घस्यदिभ्यामेव सिद्धे विकल्पवचनं घसेरसर्वविषयत्वज्ञापनार्थम् / तेन घस्ता घस्मर इत्यादावेव घसे प्रयोगो भवति / जघास / द्वित्वे गमहनेत्युपान्त्यलुकि, अघोषे प्रथम इति घस्य कत्वे घस्वस इति सस्य पत्वे जक्षतुः। जक्षुः / ऋत्येऽद इति नित्यमिट् / जघसिथ / जघास / जघस / जसिव / जक्षिम / पक्षे
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy