________________ भवादयः] सिद्धहैमबृहत्मक्रिया. घायुंक्त परिवादकः तमप्यन्यः पायुक्त अवीवदत् वीणां परिवादकेनेति तु णिजात्याश्रयणात् सिद्धम् / 173 स्वरादोर्द्वतीयः // 4 / 1 / 2 // अनेकस्वरस्य धातोराद्य एकस्वरोऽवयवः परोक्षाडेप्रत्यये द्विः स्यात् / द्विर्धातुरित्यनेन सर्वस्य द्वित्वे प्राप्ते वचनम् / इति द्वित्वे / 174 असमानलोपे सन्वल्लघुनि उ // 4 / 1 / 63 // न विद्यते समानस्य लोपो यस्मिन् ङपरे णौ द्वित्वे सति पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य स्यात् / सन्यस्येत्वमुक्तमिहापि तथा / अचिकणत् इत्यादी अनेकव्यञ्जनव्यवधानेऽपि स्थादीनामित्त्वबाधकस्यात्वस्य शासनात् सन्वद्भावो भवति नतु स्वरव्यञ्जनव्यवायेऽपि / तेन अजजागरत् / पटुमाख्यत् अपीपटदित्यादौ तु वृद्धौ कृतायां सन्ध्यक्षरलोप इति असमानलोपत्वात् सन्वद्भावः। णाविति जात्याश्रयणात् वादितवन्तं प्रयोजितवान् अवीवद्वीणां परिवादकेन / अत्र णेः समानस्य लोपेऽपि भवति / 175 लघोर्दीर्घोऽस्वरादेः // 4 / 164 // अस्वरादेर्धातोर्डपरेऽसमानलोपे णौ द्वित्वे सति पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घः स्यात् / अचीकमत / णावित्येव / तेनात्र णिङभावपक्षे अचकमत / 176 आमन्ताल्वाय्येत्नावय् // 4 / 3 / 85 // आम् अन्त आलु आय्य इत्नु प्रत्ययेषु परेषु णेरयादेशः स्यात् / लुकोऽपवादः। कामयाञ्चक्रे / अन्ताय्येत्नव औणादिकाः / णिङभावे चकमे / कामयिता / कमिता / कामयिष्यते / कमिष्यते / इति पवर्गीयान्ताः। अयि वयि पयि मयि नयि चयि रयि गतौ // 211 // अयते / आयिष्ट। - 177 दयायास्कासः॥३।४।४७॥ दय् अय् आस् कास् इत्येतेभ्यो धातुभ्यः परस्याः परोक्षायाः स्थाने आमादेशः स्यात् आमन्ताच परे कृभ्वस्तयः परोक्षान्ता अनुप्रयुज्यन्ते / अयाश्चक्रे / अयिषीष्ट / अयिषीध्वम् / अयिपीट्वम् / ___178 उपसर्गस्यायौ // 2 // 3 // 100 // उपसर्गसंवन्धिनो रेफस्य अयि गतावित्यस्मिन् धातौ परे लकारादेशः स्यात् / प्लायते / पलायते / पल्ययते / प्लत्ययते / अत्रानेकवर्णव्यवधानाबेच्छन्त्येके / प्रतिपूर्वस्य प्रयोग एव नास्तीत्यन्ये /