SearchBrowseAboutContactDonate
Page Preview
Page 531
Loading...
Download File
Download File
Page Text
________________ 518 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे गुणवृद्धिदीर्घतागमानां बाधकोऽयम् / इय्-अततात् / य् आटिटत् / गुणः-कारणा। वृद्धिः-कारकः / दीर्घः-कार्यते / तागमः-प्रकार्य / अनिटीति विषयसप्तमी / तेन चेतन इत्यत्र मागेव णेोपे 'इडितो व्यञ्जनाद्यन्तात् ' इति अनः सिद्धः। अनिटीति किम् / कारयिता। अशितीत्येव / कारयति / 172 उपान्त्यस्यासमानलोपिशास्वृदितो उ / / 4 / 2 / 35 // समानलोपिशामुकऋदनबन्धवजितस्य धातोरुपान्त्यस्य ङपरे णौ इस्वः स्यात् / नित्यमपि द्विवचनं बाधिखा प्रागेव इस्वो भवति ओणेदित्करणज्ञापकात् / तद्धि मा भवानोणिणत् इत्यत्र ऋदित्त्वादुपान्त्यहस्वत्वप्रतिषेधो यथा स्यादित्येवमर्थ क्रियते / यदि चात्र नित्यत्वात् पूर्वमेव द्वितीयद्वित्वं स्यात्तदानुपान्त्यत्वादेव इस्वत्वस्याप्राप्तिरिति किं तन्निवृत्त्यर्थेन ऋदित्करणेन। एवं मा भवानटित् इत्यादि सिद्धं भवति। ङपरे णौ इति च न धातुर्विशिष्यते किं तर्हि तदुपान्त्य इति णेः पूर्वस्याधातुत्वेऽपि इस्वो भवति / तेन गोनावमाख्यत् अजूगुनत् / केचिदौतः स्थानिवद्भावेनोपान्त्यत्वाभावाअस्वं नेच्छन्ति / तेनाजुगोनत् / णावित्येव / जे उपान्त्यस्यैतावत्युच्यमाने अलीलवदित्यादावन्तरङ्गावपि वृद्धयावादेशावदीदपदित्यादौ प्वागमं च बाधित्वा वचनसामर्थ्यात् ण्युपान्त्यस्य इस्वः प्रसज्ज्येत / अपीपचदित्यादौ ण्युपान्त्यस्वराभावान स्यात् / णिग्रहणानुवृत्तौ तु ङपरे णावुपान्त्यस्य इस्व इति सर्वत्र इस्कः सिद्धो भवति / ङ इति किम् / कारयति / उपान्त्यस्येति किम् / अचकाङ्क्षत् / येन नाव्यवधानमिति न्यायेनैव सिद्धे उपान्त्यग्रहणमुत्तरार्थम् / असमानलोपिशास्वृदित इति किम् / राजानमतिक्रान्तवानत्यरराजत् / यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावेन न सिद्धयतीति वचनम् / यत्र तु स्वरस्यैव लोपस्तत्र स्वरादेशवात् स्थानिवद्भावेनैव सिद्धयति / मालामाख्यत् अममालत् / ननु यत्रापि स्वरव्यञ्जनलोपस्तत्रापि अवयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिद्धयति किमसमानलोपिवचनेन ? सत्यम् / स्थानिवद्भावस्य अनित्यत्वख्यापनार्थ वचनम् / तेन स्वादु कृतवान् असिस्वददित्यादि सिद्धम् / अत्र 'नामिनोऽकलिहलेः' इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् / ननु च परत्वात् प्रथम लोपेनैव भवितव्यम् / नैवम् / कलिहलिवर्जनात् परमपि लोपं वृद्धिर्बाधते। अतएव तत्र कलिहलिवर्जनमर्थवत् / शासेरूदित्करणं यङ्लुपनिवृत्त्यर्थम् / वदति स्म वीणा तां
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy