SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ सिद्धहैमबृहत्पक्रिया. [स्वरान्तपुंल्लिङ्ग वृत्रहभिरित्यत्र तु असिद्धं बहिरङ्गमन्तरङ्गे इति नलोपस्यासिद्धत्वात् 'इस्वस्य तः पित्कृति' इति तोऽन्तो न भवति / ___ 211 ईडौ वा // 2 / 1 / 109 // अनोऽकारस्येकारे डौ च परे लुग्वा स्यात् / यूष्णि, यूषणि, यूषे, इत्यादि / द्वयोरहोर्भवो यह्नः। . ___212 संख्यासायवेरहस्याहन डौ वा // 1 // 4 // 50 // संख्यावाचिभ्यः सायशब्दाच्च परस्याऽह्नस्य शब्दस्य ङौ परेऽहनित्ययमादेशो वा स्यात् / यह्नि / यहनि / यहने / एवं सायमनः सायाहनः / सायाहनि / सायाहनि ।सायाने। अतएव सूत्रनिर्देशात् सायंशब्दस्य मकारलोपः / सायेत्यकारान्तो वा / विगतमहो व्यहनः / व्यहनि / व्यहनि / व्यहने / संख्यासायवेरिति किम् / मध्याहनि / अह्नस्येति किम् / द्वयोरोः समाहारो व्यहस्तस्मिन् यहे / ङाविति किम् / धनः / इत्यकारान्ताः। आकारान्तः कीलालपाशब्दः / कीलालपाः / कीलालपौ। कीलालपाः / समानादमोऽतः / कीलालपाम् / ____213 लुगातोऽनापः // 2 / 1 / 107 // आब्वर्जितस्याकारस्य डीस्यायघुटस्वरे परे लुक् स्यात् / कीलालपः। कीलालपा / कीलालपाभ्यामित्यादि / एवं शुभंयाः / विश्वपाः / हाहाः / आत इति किम् / नदीः / अनाप इति किम् / खट्वाः। डीस्याधघुटस्वर इत्येव / कीलालपास्तिष्ठन्ति / इत्याकारान्ताः / इकारान्तो मुनिशब्दः / मुनिः।। __214 इदुतोऽस्नेरीदूत् // 1 / 4 / 21 // त्रिशब्दवर्जितस्येदन्तस्योदन्तस्य च औता सह यथासंख्यं ईत ऊत इत्येतावन्तादेशौ स्याताम् / मुनी / इदुत इति किम् / देवौ / नधौ / वध्वौ / औता इत्येव / मुनिः। सख्यौ, पत्यौ इत्यत्र तु विधानसामर्थ्यान भवति। अस्त्रेरिति किम् / अतिस्त्रियौ पुरुषौ / कथं शस्त्रीमतिक्रान्तौ अतिशस्त्री पुरुषो। ' अर्थवद्ग्रहणे नानर्थकस्येति प्रतिषेधाभावात् / इदमेव चास्त्रिग्रहणं ज्ञापकं परेणापीयादेशेनेदुत्कार्य न बाध्यते ' इति। तेनातिस्त्रयः , अतिस्त्रये इत्यादि सिद्धम् / ___ 215 जस्येदोत् / / 1 / 4 / 22 / / इदन्तस्योदन्तस्य च जसि परे यथासंख्यमेत् ओत् इत्येतावन्तादेशौ स्याताम् / मुनयः / जसीति किम् मुनिः / मुनिम् / मुनी / मुनीन् /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy