________________ 508 सिद्धहैमबृहत्मक्रिया. [आख्यातप्रकरणे / 142 भ्राशभ्लाशभ्रमक्रमक्लमत्रसित्रुटिलषियसिसंयसेर्वा // 3 // 4 // 73 // एभ्यः कर्तरि विहिते शिति श्यः प्रत्ययो वा स्यात् / प्राप्ताप्राप्तविभाषेयम् / यसिग्रहणेनैव सिद्धे संयसिग्रहणमुपसर्गान्तरपूर्वकस्य यसेनिवृत्त्यर्थम् / 143 क्रमो दीर्घः परस्मै // 4 / 2 / 109 / / क्रमः परस्मैपदे शिति परे दीर्घः स्यात् अत्यादौ / क्राम्यति / कामति / परस्मैपदनिमित्तविज्ञानादेलक्यपि भवति / क्राम्य / काम / परस्मै इति किम् / आक्रमते सूर्यः / / 144 क्रमः // 4 // 45 // क्रमः परस्य स्ताद्यशित आदिरिट् स्यात् आत्मनेपदं चेन्न भवति / मान्तखान्न वृद्धिः / अक्रमीत् / चक्राम / क्रमिता / क्रमिष्यति / अक्रमिष्यत् / क्रमितेवाचरति क्रमित्रोयते इत्यत्रापि पूर्ववदिट् / कथं ' चिक्रसया कृत्रिमपत्रिपङ्क्तेः ' इत्यत्रेडभावः ? गतानुगतिक एष पाठः / 'जिघृक्षया कृत्रिमपत्रिपङ्क्तेः ' इति तु अविगानः पाठः / य{ उपरमे // 377 // 145 गमिषद्यमश्छः // 4 / 2 / 106 / / गम् इषत् यम् इत्येतेषां शिति प्रत्यये छकारादेशः स्यात् अत्यादौ / इषदिति तकारनिर्देश इष्यतीष्णात्योनिवृत्त्यर्थः / यच्छति / अयंसीत् / स्थम् शब्दे // 378 // स्यमति / अस्यमीत् / सस्याम / स्येमतुः। सस्यमतुः / जृभ्रमेति वा एवम् / णमं प्रवत्वे // 379 // नमति / अनंसीत् / ननाम / नेमतुः। नन्ता / नस्यति / षमष्टम वैक्लव्ये // 381 // ससाम। तस्ताम / अम शब्दभक्त्योः // 682 / / अमति / आमीत् / आम / अम दम हम्म मिम गम्लं गतौ // 387 // अमोऽर्थभेदार्थ पुनः पाठः। गच्छति / लुदित्त्वादङ् अगमत् / जगाम / 146 गमहनजनखनघसस्वरेऽनङि क्ङिति लुक् / / 4 / 2 / 44 / / एषामुपान्त्यस्याडजिते स्वरादौ क्छिति प्रत्यये परे लुक् स्यात् / जग्मतुः। जग्मुः। जगमिथ / जगन्थ / गम्यात् / गन्ता। - 147 गमोऽनात्मने // 4 / 4 / 51 // गमः परस्य सकारादेस्ताद्यशित आदिरिट् स्यात् आत्मनेपदं चेन्न भवति / गम इति आदेशस्यानादेशस्य च ग्रहणमविशेषात् / गमिष्यति। अगमिष्यत् / इण्धातोरादेशो गम्-जिगमिषति ग्रामम् / इक्धातोरादेशो गम्-अधिजिगमिषति मातुः / इधातोरादेशो गम्-अधिजिगमिषिता