________________ भ्वादयः ] सिद्धहैमबृहत्यक्रिया. त्वात् / विधू गत्याम् // 313 // सेधति / प्रतिषेधति / प्रत्यषेधत् / असेधीत् / प्रतिषिषेध / 130 गतौ सेधः // 2 / 3 / 61 / / गतौ वर्तमानस्य सेधतेर्धातोः सकारस्य षो न स्यात् / अभिसेधति अनुसेधति गा अनुगच्छतीत्यर्थः। अभिसेधयति * अनुसेधयति / गमयतीत्यर्थः / अभिसिसेधिषति / अनुसिसेधिषति / अभिजिगमिषति अनुजिगमिषतीत्यर्थः / गताविति किम् / प्रतिषेधति / निषेधति / पापानिचारयतीत्यर्थः / षिधौ शास्त्रमाङ्गल्ययोः // 314 // शास्त्रं शासनम् / सेधति / औदित्वादिड्वा-असेधीत् / पक्षे असैत्सीत् / 131 अधश्चतुर्थात्तथोधः // 2 / 1179 // चतुर्थात्परयोस्तकारथकारयोर्धारूपवर्जिताद्धातोविहितयोः स्थाने धकार आदेशः स्यात् / असैद्धाम् / असैत्सुरित्यादि / अध इति किम् / दधातेर्यलुबन्तधयतेश्च मा भूत् / केचित्तु यङ्लुबन्तधयतेरपीछन्ति / विहितविशेषणं किम् / ज्ञानभुत्त्वम् / अत्र नामविहिते त्वे मा भूत् / शुन्ध शुद्धौ // 315 / / स्तन धन ध्वन चन स्वन वन शब्दे // 321 // स्तनति / स्वनति / 132 जभ्रमवमत्रसफणस्यमस्वनराजभ्राजभ्रासभ्लासो वा // 4 // 1 // 26 // एषामवित्परोक्षासेट्थवोः स्वरस्यात एत्वं वा स्यात् न चैते द्विर्भवन्ति / वमेनेच्छन्त्यन्ये / स्वेनतुः / सस्वनतुः / स्वेनिथ / सस्वनिथ / अविदित्येव / अहं सस्वन / 133 व्यवात्स्वनोऽशने // 2 // 3 // 43 // वेरवाचोपसर्गात्परस्य स्वनो धातोः सकारस्याशने भोजनेऽर्थे द्वित्वेऽपि अव्यपि षः स्यात् / विष्वणति / अवष्वणति / भुङ्क्ते इत्यर्थः / सशब्दं भुङ्क्ते इत्यर्थ इत्यन्ये / भुञ्जानः कंचिच्छब्दं करोतीत्यर्थ इत्यपरे / विषष्वाण / अवषष्वाण / विषष्वण्यते / अवषष्वण्यते / विषिष्वणिषति / अवषिष्वणिषति / व्यष्वणत् / अवाष्वणत् / व्यषिष्वणत् / अवाषिष्वणत् / व्यवादिति किम् / अतिस्वनति / अत्यसिस्वनत् / अशन इति किम् / विस्वनति अवस्वनति मृदङ्गः / विविधं शब्दं करोतीत्यर्यः। वन षण संभक्तौ // 323 // सनति / असानीत् / असनीत् / ससान / सेनतुः। 134 ये न वा // 4 / 2 / 62 / / स्वनादीनां ये क्ङिति प्रत्ययेऽन्तस्याकारो वा