SearchBrowseAboutContactDonate
Page Preview
Page 516
Loading...
Download File
Download File
Page Text
________________ 503 भवादया] सिद्धहैमहत्यक्रिया. आमन्ताच परे कृभ्वस्तयो धातवः परोक्षान्ता अनु-पश्चादनन्तरं प्रयुज्यन्ते / चिकित्साञ्चकार / चिकित्साम्बभूव / चिकित्सामास / विधानबलादस्तेर्न भूः / अनेकखरादिति किम् / पपाच / कश्चित्तु प्रत्ययान्तादेकस्वरादपीच्छति / गौरिवाच. चार गवाञ्चकार / अनुग्रहणं विपर्यासव्यवहितनिवृत्त्यर्थम् / तेन चकारचकासाम् इत्यादि न भवति। उपसर्गस्य तु क्रियाविशेषकत्वात् व्यवधायकत्वं नास्ति / तेन 'उक्षांपचक्रुनगरस्य मार्गान्' इत्यादि भवत्येव / ऋत घृणागतिस्पर्द्धषु // 28 // 123 ऋतेङमयः // 3 // 49 // ऋत घृणागतिस्पर्धेषु इत्यस्माद्धातोः स्वार्थे डीयः प्रत्ययः स्याम् / डकार आत्मनेपदार्थः / ऋतीयते / 124 आतामाते आथामाथे आदिः // 4 / 2 / 121 // अकारात्परेषामातामाते आथामाथे इत्येतेषाम् आत इ: स्यात् / ऋतीयेते / ऋतीयन्ते / ऋतीयसे / ऋतीयेथे / ऋतीयध्वे / ऋतीये / ऋतीयावहे / ऋतीयामहे / ऋतीयेत / ऋतीयेयाताम् / ऋतीयेरन् / ऋतीयेथाः। ऋतीयेयाथाम् / ऋतीयेध्वम् / ऋतीयेय / ऋतीयेवहि / ऋतीयेमहि / ऋतीयताम् / ऋतीयेताम् / ऋतीयन्ताम् / ऋतीयस्व / ऋतीयेथाम् / ऋतीयध्वम् / ऋतीय ऋतीयावहै / ऋतीयामहै / आतीयत। आतीयेताम् / आतीयन्त / आर्तीयथाः। आतीयेथाम् / आतीयध्वम् / आतीये / आतीयावहि / आर्तीयामहि / 125 अशवि ते वा // 3 / 4 / 3 / गुपादिभ्योऽशवि विषये ते आयादयो वा सनुः / आतीयिष्ट / आर्तीयिषाताम् / . 126 अनतोऽन्तोऽदात्मने // 4 / 2 / 114 // अनकारात्परस्यात्मनेपदसंबं. घिनोऽन्तरूपस्यावयवस्यात् इत्ययमादेशः स्यात् / आर्तीयिषत / आर्तीयिष्ठाः / आर्तीयिषाथाम् / 127 सो धि वा // 4 // 3 // 72 // धातोधकारादौ प्रत्यये परे सकारस्य लुग्वा स्यात् / सिच्यनुवर्तमाने सग्रहणं सामान्यसकारपरिग्रहार्थम् / तेन प्रकृतिसकारस्यापि लुग् भवति। विकल्पं नेच्छन्त्येके। अन्ये तु सिच एव नित्यं लोपमिच्छन्ति / आर्तीयिध्वम् / आर्तीयिपि / आतीयिष्वहि। आर्तीयिष्महि / पक्षे-डीयपत्ययाभावे आतीत् / आतिष्टाम् / आतिषुः। ऋतीयाञ्चक्रे / आनत। ऋतीयिषीष्ट। ऋती
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy