SearchBrowseAboutContactDonate
Page Preview
Page 510
Loading...
Download File
Download File
Page Text
________________ भ्वादयः] सिद्धहैमबृहत्मक्रिया. 497 -- 102 उदितः स्वरान्नोऽन्तः // 449 // उदितो धातोः स्वरात्परो नोऽन्तोऽवयवः स्यात् / अयं चोपदेशावस्थायामेव भवत्यनैमित्तिकत्वात् / तेन कुण्डा हुण्डेत्यादौ ‘क्तेटो गुरोर्व्यञ्जनात् ' इत्यप्रत्ययः सिद्धो भवति / तङ्कति / अतङ्कीत् / ततङ्क / ततङ्कतुः / शुक गतौ / 52 // 103 लघोरुपान्त्यस्य // 4 / 3 / 4 // धातोरुपान्त्यस्य नामिनो लघोरङिति प्रत्यये परे गुणः स्यात् / शोकति / अशोकीत् / शुशोक / बुक्क भाषणे // 53 // बुक्कति / अबुक्कीत् / बुबुक्क / ओख राख लाख द्राख धाव शोषणालमर्थयोः // 58 // ओखति / औखीत् / 104 गुरुनाम्यादेरनृच्छ्रोः // 3 // 3 // 48 // गुरुर्नामी आदिर्यस्य तस्माद्धातोःच्छृणुवर्जितात्परस्याः परोक्षायाः स्थाने आमादेशः स्यात् आमन्ताच्च परे कृभ्वस्तयः परोक्षान्ता अनुपयुज्यन्ते। अत एव ऋच्छप्रतिषेधात् संयोगे परे पूर्वो गुरुरिति विज्ञायते / विधानबलादस्तेन भूः / 105 आमः कृगः // 3 / 3 / 78 // आमः परादनुप्रयुज्यमानात्करोतेराम एव पाग्यो धातुस्तस्मादिव कर्तर्यात्मनेपदं स्यात् / भवति न भवति चेति विधिप्रतिषेधावतिदिश्यते / यथोशीरवन्मद्वेषु यवाः सन्ति न सन्तीति / तेन ईहाश्चक्रे ईक्षाञ्चक्रे इत्यफलवत्यपि भवति / विभयाञ्चकार जागराञ्चकारेति फलवत्यपि न भवति / यत्र तु पूर्वस्मादुभयं तत्र फलवत्यफलवति चोभयं भवति / बिभराश्चक्रे बिभराञ्चकारेति। ओखाञ्चकार / कृग इति किम् / करोतेरेव यथा स्यादिह मा भूत् / ईक्षामास / ईक्षाम्बभूव / शाख श्लाख व्याप्तौ // 60 // कक्ख हसने // 61 // उख नख णख वख मख रख लख मखु रखु लखु रिखु इख इखु ईखु वल्ग रगु लगु तगु गु श्लगु अगु वगु मगु खगु इगु उगु रिगु लिगु गतौ // 48 // ओखति। औखीत् / णवि उख उव् इति द्वित्वे लघोरुपान्त्यस्येति गुणे पूर्वस्यास्वे स्वर इत्युवादेशे च उवोख / ऊखतुः ऊखुः / अत्र 'संनिपातलक्षणो विधिरनिमित्तं तद्विघातस्येत्याम्न / तथा च समानां तेनेति दीर्घस्य पूर्वग्रहणेन ग्रहणाद् इस्वः प्राप्तोऽपि न भवति सकृत्मवृत्तवात् / पर्जन्यवल्लक्षणप्रवृत्त्या इस्वे कृते ततो दीर्घः परत्वात् / उख्यात् / ओखिता / ओखिष्यति / औखिष्यत् / वखति। अवाखीत्। अवखीत् / ववाख /
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy