________________ सिद्धहैमबृहत्मक्रिया. [स्वरान्तपुंल्लिङ्ग 203 तीयं ङित्कार्ये वा // 1 // 414 // तीयप्रत्ययान्तं शब्दरूपं डितांडेङसिङीनां कार्य कर्तव्ये सर्वादिर्वा स्यात / द्वितीयस्मै। द्वितीयाय / द्वितीयस्मात / द्वितीयात / द्वितीयस्मिन् / द्वितीये / शेषं देववत् / एवं तृतीयः / डित्कार्ये इति किम् / तत्रैव सर्वादित्वं यथा स्यात् , नान्यत्र, तेनाक् न भवति / तथा च कप्पत्यये सति स्वार्थिकप्रत्ययान्ताग्रहणात् स्मैप्रभृतयो न भवन्ति / द्वितीयकाय / तृतीयकाय / द्वितीयिकायै / तृतीयिकाथै इत्यादि / अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न भवति / पटुजातीयाय / 204 नेमार्धप्रथमचरमतयायाल्पकतिपयस्य वा // 14 // 10 // नेमादीनि नामानि / तयायौ प्रत्ययौ / तेषामकारान्तानां संबंधिनो जसः स्थाने इर्वा स्यात् / नेमस्य प्राप्ते इतरेषामप्राप्ते विभाषा / नेमे / नेमाः। शेषं सर्ववत् / अर्धे / अर्धाः। प्रथमे / प्रथमाः / चरमे / चरमाः। द्वितये / द्वितयाः / अल्पे / अल्पाः / कतिपये / कतिपयाः। शेष देववत् / उभयशब्दस्य त्वयट्प्रत्ययरहितस्याखण्डस्य सर्वादौ पाठात् पूर्वेण नित्यमेवेत्वं भवति / तत्संबंधिविज्ञानादिह न भवति / प्रियनेमाः। अतिनेमाः। स्वार्थिकप्रत्ययान्ताग्रहणादिह न भवति / अर्धकाः / सर्वादेरित्येव / नेमा नाम केचित् / व्यवस्थितविभाषाविज्ञानादर्धादीनामपि संज्ञायां न भवति / अर्धा नाम केचित् / अत इत्येव। नेमाः स्त्रियः। निर्जरः। . 205 जराया जरस्वा // 2 / 1 / 3 // जराशब्दस्य स्वसंबंधिन्यन्यसंबंधिनि वा स्वरादौ स्यादौ परतो जरस् इत्ययमादेशो वा स्यात् / अनेकवर्णत्वात् सर्वादेशे प्राप्ते 'निर्दिश्यमानस्यादेशा भवन्ति / एक देशविकृतस्यानन्यत्वात् जरशब्दस्यापि जरस / निर्जरसौ / निर्जरसः। निर्जरसम् / परखानित्यत्वाच्च प्रागेव जरसादेशे कृते अकारान्तत्वाभावादिनादयो न स्युः / निर्जरसा। निर्जरसैः / निर्जरसः / निर्जरसः। अन्ये तु मागेवेनादेशं 'संनिपातलक्षण'-न्यायस्यानित्यत्वाश्रयणाजरसादेशं चेच्छन्तो निर्जरसिन, निर्जरसादित्यपि मन्यन्ते / निर्जरसोः२। निर्जरसाम् / निर्जरसि / पक्षे व्यंजनादौ च देववत् / मासः / मासौ / मासाः / मासं / मासौ। . 206 मासनिशासनस्य शसादौ लुग्वा / / 2 / 1 / 100 // एषां शसादौ स्यादौ परे लुगन्तादेशो वा स्यात् / मासः। मासान् / मासा / मासेन / भ्यामि मास्भ्यामित्यत्र