SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ प्रकरणम् ] सिद्धहैमबृहत्मक्रिया. 197 अवर्णस्यामः साम् // 1 / 4 / 15 // अवर्णान्तस्य सर्वादेः संबंधिनः षष्ठीबहुवचनस्यामः स्थाने सामित्ययमादेशः स्यात् / 'संनिपातलक्षण'-न्यायस्यानित्यत्वादेत्वम् / सर्वेषाम् / सर्वादेरित्येव / नेह, द्वयानाम् / कथं 'व्यथां द्वयेषामपि मेदिनीभृताम् ' इति / अपपाठ एषः / तत्संबंधिविज्ञानादिह न भवति-मियसर्वाणाम् / अवर्णस्येति किम् / भवताम् / 198 स्मिन् / 1 / 4 / 8 // सर्वादेरकारान्तस्य संबंधिनः सप्तम्येकवचनस्य स्थाने स्मिन्नित्ययमादेशः स्यात् / सर्वस्मिन् / शेषं देववत् / अत इत्येव / भवति / सर्वादेरित्येव / सर्वो नाम कश्चित्-सर्वे / तत्संबंधिविज्ञानादिह न भवति / प्रियसर्वे / एवं विश्वादयोऽप्यदन्ताः / 199 नवभ्यः पूर्वेभ्य इस्मास्मिन् वा // 1 // 4 // 16 // पूर्वादिभ्यो नवभ्यो यथास्थानं ये इ स्मात् स्मिन् आदेशा उक्तास्ते वा स्युः / पूर्वे / पूर्वाः / पूर्वस्मात् / पूर्वात् / पूर्वस्मिन् / पूर्वे / शेषं सर्ववत् / एवं परादीनामपि / नवभ्य इति किम् / त्ये / त्यस्मात् / त्यस्मिन् / पूर्वेभ्य इति किम् / सर्वे / सर्वस्मात् / सर्वस्मिन् / पूर्व, पर, अवर, दक्षिण, उत्तर, अपर, अधर, स्व, अन्तर इति पूर्वादयो नव / 200 द्वन्दे वा // 1 // 4 // 11 // द्वन्द्वे समासे वर्तमानस्याकारान्तस्य सर्वादेः संबंधिनो जसः स्थाने इर्वा स्यात् / पूर्वोत्तरे / पूर्वोत्तराः। तत्संबंधिविज्ञानादिह न भवति / प्रियकतरकतमाः। उत्तरेण निषेधे प्राप्त प्रतिप्रसवार्थो योगः।। _ 201 न सर्वादिः // 1 / 4 / 12 // द्वन्द्वसमासे सर्वादिः सर्वादिनस्यात् / सर्व सर्वादिकार्य न भवति / पूर्वापराय / पूर्वापरात् / पूर्वापरे। शेषं देववत् / दक्षिणोत्तरपूर्वाणाम् / अत्र 'सर्वादयोऽस्यादौ' इति पुंवद्भावो भवत्येव / तत्र भूतपूर्वस्यापि सर्वादेग्रहणात् / कतरकतमकाः, अत्र सर्वादित्वनिषेधादक्प्रत्ययाभावे कप्पत्यये सति स्वार्थिकप्रत्ययान्ताग्रहणात् द्वन्द्वे वेति जस इन भवति / 202 तृतीयान्तात् पूर्वावरं योगे // 1 / 4 / 13 // पूर्व अवर इत्येतौ सर्वादी तृतीयान्तात् पदात् परौ योगे संबंधे सति सर्वादी न स्याताम् / मासेन पूर्वाय / मासपूर्वाय / संवत्सरेणावराय / संवत्सरावराय / तृतीयान्तादिति किम् / ग्रामात् पूर्वस्मै / पूर्वस्मै मासेन / अवरस्मै पक्षेण / पूर्वापरमिति किम् / मासपरस्मै / योगे इति किम् / यास्यति चैत्रो मासेन पूर्वस्मै दीयतां कम्बलः। .
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy