SearchBrowseAboutContactDonate
Page Preview
Page 508
Loading...
Download File
Download File
Page Text
________________ भ्वादयः] सिद्धहैमबृहत्मक्रिया. 495 तु न / 'संयोगादर्तेः' इत्येनेनैव सिद्धे स्कृग्रहणं तत्रौपदेशिकसंयोगपरिग्रहार्थम् / तर् इति जाते। 93 तृत्रपफलभजाम् // 4 / 1 / 26 // एषामवित्परोक्षासेट्थवोः स्वरस्यात एत्वं स्यान्न चैते द्विः स्युः। तरतेरतो गुणरूपखातू फलमजोरादेशादिखात न पामोतीति वचनम् / वहुवचनं तु फलत्रिफला इत्युभयोरपि ग्रहणार्थम् / तेरतुः / तेरुः / तेरिथ / 94 ऋतां क्ङितीर् // 44 / 11 / ऋकारान्तस्य धातोः किति ङिति प्रत्यये परे निर्देशात् ऋकारस्यैव स्थाने ( नतु अनेकवर्णः सर्वस्येति) इरित्ययमादेशः स्यात् / बहुवचनं लाक्षणिकस्यापि परिग्रहार्थम् यथा चिकीर्षतीति / तीर्यात् / - 95 वृतो नवानाशी:सिच्परस्मै च // 4 / 4 / 35 // ग्भ्यामकारान्तेभ्यश्च परस्य वा दीर्घः स्यात् परोक्षायामाशिषि परस्मैपदविषये सिचि च न / तकारो वर्णनिर्देशार्थः / अन्यथा समरीता समरितेति ऋणातेरेव विज्ञायेत / तरीता। तरिता / तरीष्यति / तरिष्यति / अतरीष्यत् / अतरिष्यत् / सिचः परस्मैपदविशेषषणादात्मनेपदे दीर्घो भवत्येव / ट्धे पाने // 27 // 96 आत्सन्ध्यक्षरस्य // 4 / 2 / 1 // धातोः सन्ध्यक्षरान्तस्याकारः स्यानिनिमित्तः / अनैमित्तिकखादावस्य प्रागेव कृतत्वात् सुग्लः सुम्ल इत्यादौ आकारान्तलक्षणः प्रत्ययो भवति / अनेन सर्वत्राकारे प्राप्ते / 97 न शिति // 4 / 2 / 2 // सन्ध्यक्षरात्तस्य शिति प्रत्यये विषयभूते आकारो न स्यात् / धयति / इह तु लाक्षणिकखान्न भवति-चेता। स्तोता। अद्यतन्याम् अत्वे कृते 98 धेश्वेर्वा // 3 / 4 / 69 // धेश्विभ्यां कर्तर्यद्यतन्यां ङः प्रत्ययो वा स्यात् / द्विर्धातुरिति द्वित्वे पूर्वस्य इस्वत्वे दत्वे च अदधत् / अदधताम् / अदधन् / पक्षे ट्धेप्रेति वा सिज्लोपे अधात् / अधाताम् / अधुः / विकल्पद्ये त्रैरूप्यमिति यमिरमिनम्यातः सोऽन्तश्च / अधासीत् / अधासिष्टाम् / अधासिषुः / दधौ / धेयात् / धाता / धास्यति / देव शोधने // 28 // दायति / अदासीत् / ददौ / दासंज्ञा
SR No.032767
Book TitleHaimbruhatprakriya Mahavyakaranam
Original Sutra AuthorN/A
AuthorGirijashankar Mayashankar Shastri
PublisherGirijashankar Mayashankar Shastri
Publication Year1931
Total Pages1254
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy