________________ 490 सिद्धहैमबृहत्पक्रिया. [आख्यातमकरणे 66 संयोगादेर्वाशिष्येः // 4 / 3 / 95 // धातो; संयोगादेराकारान्तस्य क्ङित्याशिषि परेऽन्तस्यैकारादेशो वा स्यात् / प्रेयात् / घायात् / घेयास्ताम् / घ्रायास्ताम् / घेयासुः। घ्रायासुः। अपच्छायादित्यत्र तु छकारस्य द्वित्वे सति संयोगादित्वस्य लाक्षणिकखान्न भवति / संयोगादेरिति किम् / यायात् / धातोरित्येव / निर्यायात् / विडतीत्येव / ग्लासीष्ट। आशिषीति किम् / ग्लानः। प्राता / घ्रास्यति / अघ्रास्यत् / मां शब्दाग्निसंयोगयोः // 4 // धमति / अध्मासीत् / दध्मौ / मायात् / ध्मेयात् / ध्माता / ध्मास्यति / अध्मास्यत् / ष्ठां गतिनिवृत्तौ // 5 // 67 षः सोऽष्ट्यैष्ठिवष्वष्कः // 2 // 3 // 98 // पाठे धाबादेः षकारस्य सकार आदेशः स्यान्न चेत् षकारः ष्ट्यैष्ठिवष्वष्कसंबन्धी। स्वरदन्त्यपरसकारादयः स्मिस्विदिस्वदिस्वञ्जिस्वपयश्च पोपदेशाः सृपि, सृजि, स्त्या, स्तु, स्त, सू, सेकवर्जम् / षोपदेशश्चैषां पखविषयव्यवस्थार्थः / निमित्ताभावे नैमित्तिकस्याप्यभाव इति ठस्य थत्वे स्थाधातुः / तिष्ठति / तस्थौ / अस्थात् / 68 अघोषे शिटः // 41 // 45 // धातोद्वित्वे सति पूर्वस्य शिटस्तत्संबन्धिन्येवाघोषे परे लुक् स्यात् / अनादिलुगपवादोऽयम् / तस्थौ / तस्थतुः / तस्थुः / तस्थिथ / तस्थाथ / अघोष इति किम् / सस्नौ। शिट इति किम् / पप्सौ / स्थेयात् / स्थाता / स्थास्यति / अस्थास्यत् / 69 स्थासेनिसेधसिचसञ्जां द्वित्वेऽपि // 2 // 3 // 40 // उपसर्गस्थानाम्यन्तस्थाकवर्गात्परेषां स्थादीनां सकारस्य षः स्यात् द्वित्वेऽपि अव्यपि-द्विवचनेनाटा द्वाभ्यां व्यवधानेऽपीत्यर्थः / अध्यष्ठात् / अधितष्ठौ / अधिष्ठाता / अधिष्ठास्यति / अध्यष्ठास्यत / उपसर्गादित्येव / अधिस्थास्यति / गतार्थवान्नात्राधिरुपसर्गः सेनेः १अषोपदेशार्थ स्थासञ्जोरवर्णान्तव्यवधानेऽपि विध्यर्थ सिचसञ्जसेधां पणि नियमवाधनार्थ सर्वेषामड्व्यवधाने पदादौ च षत्वार्थ वचनम् / म्नां अभ्यासे // 6 // मनति / अम्नासीत् / मम्नौ / म्नेयात् / नायात् / नाता / म्नास्यति / अम्नास्यत् / दां दाने // 7 // यच्छति / 1 अषोपदेशत्वं च सह इनेन वर्तते इति व्युत्पत्तौ / सर्वेऽपि साधितस्यापि वा व्युत्पत्तिपक्षे / 1 सेनेस्तु ‘णिस्तोरेवा-' इति सिद्धं, तिष्ठतेस्तु सन् षत्वरूपो नास्तीति।